ब्रह्म न च जायते, कारणशून्यत्वात् , नरविषाणवत् , व्यतिरेकेण घटवच्चेत्यनुमानानुग्रहाद्विपक्षे चाकारणककार्यवादप्रसङ्गाद्ब्रह्मानादित्वश्रुतयो बलीयस्य इति कारणत्वलिङ्गबाधाज्जन्मश्रुतिः कार्याभेदेन व्याख्येयेत्यनाद्यनन्तब्रह्मसमन्वयसिद्धिरिति सिद्धान्तफलम् । न हेत्वसिद्धिः, कारणस्यानिरूपणात् । तथा हि किं सन्मात्रस्य ब्रह्मणः सन्मात्रमेव सामान्यं कारणं सद्विशेषो वा असद्वा । न त्रेधापीत्याह -
सन्मात्रं हीत्यादिना ।
दीपस्तु दीपान्तरे निमित्तमित्यनुदाहरणम् । वियत्पवनयोर्ब्रह्मणश्च विभक्तत्वाविभक्तत्वाभ्यां कारणभावाभावाभ्यां च वैषम्यम् । कारणत्वलिङ्गस्याप्रामाणिकानवस्था ।
तर्केणापि बाधमाह -
न च विकारेभ्य इत्यादिना ।
कारणस्यानभ्युपगमे यदृच्छावादप्रसङ्गः, अनादिकारणानभ्युपगमेऽनवस्थाप्रसङ्गः, तदभ्युपगमे ब्रह्मवादप्रसङ्गः, कारणान्तरस्य प्रधानादेर्निरासादिति भावः ॥९॥