ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
तेजोऽतस्तथाह्याह ॥ १० ॥
छान्दोग्ये सन्मूलत्वं तेजसः श्रावितम् , तैत्तिरीयके तु वायुमूलत्वम्तत्र तेजोयोनिं प्रति श्रुतिविप्रतिपत्तौ सत्याम् , प्राप्तं तावद्ब्रह्मयोनिकं तेज इतिकुतः ? ‘सदेवइत्युपक्रम्यतत्तेजोऽसृजतइत्युपदेशात्सर्वविज्ञानप्रतिज्ञायाश्च ब्रह्मप्रभवत्वे सर्वस्य सम्भवात्; तज्जलान्’ (छा. उ. ३ । १४ । १) इति अविशेषश्रुतेःएतस्माज्जायते प्राणः’ (मु. उ. २ । १ । ३) इति उपक्रम्य श्रुत्यन्तरे सर्वस्याविशेषेण ब्रह्मजत्वोपदेशात्; तैत्तिरीयके तपस्तप्त्वाइदꣳ सर्वमसृजतयदिदं किञ्च’ (तै. उ. २ । ६ । १) इत्यविशेषश्रवणात्तस्मात्वायोरग्निः’ (तै. उ. २ । १ । १) इति क्रमोपदेशो द्रष्टव्यःवायोरनन्तरमग्निः सम्भूत इति

तेजोऽतस्तथाह्याह ।

'तत्तेजोऽसृजत' इति 'वायोरग्निः' इति च श्रुत्योर्विरोधोऽस्ति न वेति सन्देहे सामान्यात्सामान्योत्पत्त्यसम्भवेऽपि ब्रह्मवाय्वोः सामान्ययोस्तेजोरूपविशेषोपादानत्वसम्भवात्तुल्यबलतयास्ति विरोध इति प्रत्युदाहरणेन पूर्वपक्षः । सर्वत्राध्यायसमाप्तेरेकवाक्यत्वासम्भवासम्भवौ संशयबीजम् । पूर्वपक्षे श्रुतीनां विरोधादप्रामाण्यं फलम् , सिद्धान्ते प्रामाण्यमित्युक्तं न विस्मर्तव्यम् । एवं पूर्वपक्षे कार्यमात्रस्य विवर्तत्वात्कल्पितस्य वायोस्तेजःकल्पनाधिष्ठानत्वायोगाद्ब्रह्मैव तेजस उपादानं सर्वकार्याणां ब्रह्मैवोपादानमित्यर्थे श्रुतीनां भूयस्त्वाच्च तदनुरोधाद्वायोरिति क्रमार्था पञ्चमीत्यविरोध इत्येकदेशिसिद्धान्तं प्रापयति -

प्राप्तं तावद्ब्रह्मयोनिकं तेज इत्यादिना ।

श्रुतीनां विरोधमात्रोपन्यासेन पूर्वपक्षः, अपसिद्धान्तेनाविरोधात्तावदेकदेशिपक्ष इति ज्ञेयम् । तदुभयमपि मुख्यसिद्धान्तापेक्षया पूर्वपक्षत्वेन व्यवह्रियते ।