ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
पृथिव्यधिकाररूपशब्दान्तरेभ्यः ॥ १२ ॥
ता आप ऐक्षन्त बह्व्यः स्याम प्रजायेमहीति ता अन्नमसृजन्त’ (छा. उ. ६ । २ । ४) इति श्रूयतेतत्र संशयःकिमनेनान्नशब्देन व्रीहियवाद्यभ्यवहार्यं वा ओदनाद्युच्यते, किं वा पृथिवीतितत्र प्राप्तं तावत्व्रीहियवादि ओदनादि वा परिग्रहीतव्यमितितत्र ह्यन्नशब्दः प्रसिद्धो लोकेवाक्यशेषोऽप्येतमर्थमुपोद्बलयति — ‘तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं भवतिइति व्रीहियवाद्येव हि सति वर्षणे बहु भवति, पृथिवीति

पृथिव्यधिकाररूपशब्दान्तरेभ्यः ।

विषयमुक्त्वान्नशब्दमहाभूतप्रकरणाभ्यां संशयमाह -

ता इति ।

अभ्यवहार्यं भक्ष्यम् । अत्र श्रुतौ यद्यन्नमोदनादिकं तदा 'अद्भ्यः पृथिवी' इति श्रुत्या विरोधः, यदि पृथिवी तदा न विरोध इति फलं बोध्यम् । अप्पृथिव्योः कार्यकारणभावादधिकरणसङ्गतिः । अन्नश्रुतिवृष्टिभवनत्वलिङ्गाभ्यां पूर्वपक्षः । तदेव तत्रैवेति श्रुत्यर्थः ।