ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
पृथिव्यधिकाररूपशब्दान्तरेभ्यः ॥ १२ ॥
एवं प्राप्ते, ब्रूमःपृथिव्येवेयमन्नशब्देनाद्भ्यो जायमाना विवक्ष्यत इतिकस्मात् ? अधिकारात् , रूपात् , शब्दान्तराच्चअधिकारस्तावत् — ‘तत्तेजोऽसृजत’ ‘तदपोऽसृजतइति महाभूतविषयो वर्ततेतत्र क्रमप्राप्तां पृथिवीं महाभूतं विलङ्घ्य नाकस्माद्व्रीह्यादिपरिग्रहो न्याय्यःतथा रूपमपि वाक्यशेषे पृथिव्यनुगुणं दृश्यते — ‘यत्कृष्णं तदन्नस्यइति ह्योदनादेरभ्यवहार्यस्य कृष्णत्वनियमोऽस्ति, नापि व्रीह्यादीनाम्ननु पृथिव्या अपि नैव कृष्णत्वनियमोऽस्ति, पयःपाण्डुरस्याङ्गाररोहितस्य क्षेत्रस्य दर्शनात्; नायं दोषःबाहुल्यापेक्षत्वात्भूयिष्ठं हि पृथिव्याः कृष्णं रूपम् , तथा श्वेतरोहितेपौराणिका अपि पृथिवीच्छायां शर्वरीमुपदिशन्ति, सा कृष्णाभासाइत्यतः कृष्णं रूपं पृथिव्या इति श्लिष्यतेश्रुत्यन्तरमपि समानाधिकारम् — ‘अद्भ्यः पृथिवीइति भवति, तद्यदपां शर आसीत्तत्समहन्यत सा पृथिव्यभवत्’ (बृ. उ. १ । २ । २) इति पृथिव्यास्तु व्रीह्यादेरुत्पत्तिं दर्शयति — ‘पृथिव्या ओषधय ओषधीभ्योऽन्नम्इति एवमधिकारादिषु पृथिव्याः प्रतिपादकेषु सत्सु कुतो व्रीह्यादिप्रतिपत्तिः ? प्रसिद्धिरप्यधिकारादिभिरेव बाध्यतेवाक्यशेषोऽपि पार्थिवत्वादन्नाद्यस्य तद्द्वारेण पृथिव्या एवाद्भ्यः प्रभवत्वं सूचयतीति द्रष्टव्यम्तस्मात्पृथिवीयमन्नशब्देति ॥ १२ ॥

तथा च क्वचिदन्नं क्वचिदद्भयः पृथिवी ततोऽन्नमिति विरोधान्नैकवाक्यतेति प्राप्ते सिद्धान्तयति -

एवं प्राप्त इति ।

अधिकारः प्रकरणम् । रूपं लिङ्गम् । पयः क्षीरं तद्वत्पाण्डुरं श्वेतम् , अङ्गारवद्रोहितं रक्तम् ।

शब्दान्तरशब्दितं स्थानं व्याचष्टे -

श्रुत्यन्तरमपीति ।

अबानन्तर्यं पृथिव्याः स्थानं श्रुत्यन्तरसिद्धं तेनाप्यन्नस्य पृथिवीत्वमित्यर्थः । तत्तत्र सृष्टिकाले यदपां शरः यो मण्डवद्घनीभाव आसीत्स एव समहन्यत कठिनः सङ्घातोऽभूत्सापां कठिना परिणतिः पृथिव्यभवदिति श्रुत्यर्थः ।

व्रीह्याद्यन्नसर्गः कस्मिन्स्थान इति विवक्षायामाह -

पृथिव्यास्त्विति ।

पञ्चमीयम् ।

वृष्टिभवत्वलिङ्गसहितान्नश्रुतेः कथं प्रकरणलिङ्गस्थानैर्बाध इत्याशङ्क्याह -

वाक्यशेषोऽपीति ।

प्रबलदुर्बलप्रमाणसन्निपाते बहूनां दुर्बलानामत्यन्तबाधाद्वरं प्रबलप्रमाणस्याल्पबाधेन कथञ्चिन्नयनमिति न्यायेन श्रुतिलिङ्गयोरन्नमात्रनिष्ठत्वं बाधित्वान्नानन्नात्मकपृथिवीनिष्ठत्वं नीयते । ताभ्यामन्नमात्रग्रहे प्रकरणादीनां पृथिवीमात्रविषयाणामत्यन्तबाधापत्तेरिति भावः । अन्नस्य वृष्टिजत्वोक्तिद्वारा पृथिव्या अब्जन्यत्वं सूच्यते । पृथिव्यब्जा, पृथिवीत्वात् , अन्नवदित्यनुमानादित्यक्षरार्थः । एवं तित्तिरिश्रुत्यनुसारेण छन्दोगश्रुतेर्नयनादविरुद्धो भूतसृष्टिश्रुतीनां ब्रह्मणि समन्वय इति सिद्धम् ॥१२॥