ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
तदभिध्यानादेव तु तल्लिङ्गात्सः ॥ १३ ॥
किमिमानि वियदादीनि भूतानि स्वयमेव स्वविकारान्सृजन्ति, आहोस्वित्परमेश्वर एव तेन तेन आत्मनावतिष्ठमानोऽभिध्यायन् तं तं विकारं सृजतीति सन्देहे सति, प्राप्तं तावत्स्वयमेव सृजन्तीतिकुतः ? आकाशाद्वायुर्वायोरग्निः’ (तै. उ. २ । १ । १) इत्यादिस्वातन्त्र्यश्रवणात्ननु अचेतनानां स्वतन्त्राणां प्रवृत्तिः प्रतिषिद्धा; नैष दोषःतत्तेज ऐक्षत’ (छा. उ. ६ । २ । ३) ता आप ऐक्षन्त’ (छा. उ. ६ । २ । ४) इति भूतानामपि चेतनत्वश्रवणादिति

सम्प्रति तानि भूतान्याश्रित्याश्रयाश्रयिभावसङ्गत्या तेषां स्वातन्त्र्यमाशङ्क्य निषेधति -

तदभिध्यानादेव तु तल्लिङ्गात्सः ।

उक्तभूतान्याश्रित्य संशयपूर्वपक्षौ दर्शयति -

किमिमानीत्यादिना ।

संशयबीजानुक्तौ पूर्वोत्तरपक्षयुक्तयो बीजमिति ज्ञेयम् ।

नन्वत्र भूतानां किं स्वातन्त्र्येणोपादानत्वमाशङ्क्यते कर्तृत्वं वा । नाद्यः, 'रचनानुपपत्तेः' इत्यादिन्यायविरोधादिति शङ्कते -

नन्विति ।

न द्वितीयः, अचेतनत्वादिति भावः । यथा मनुष्यादिशब्दैस्तत्तद्देहाभिमानिनो जीवा उच्यन्ते तथा 'आकाशाद्वायुः' इत्यादिश्रुतावाकाशादिशब्दैस्तत्तद्भूताभिमानिदेवता उच्यन्ते, तासां स्वकार्ये वाय्वादौ कर्तृत्वसम्भवान्निरपेक्षनिमित्तत्वं पञ्चम्यर्थः । एवं 'तदात्मानं स्वयमकुरुत' इति श्रुतौ स्वयमिति विशेषणाद्ब्रह्मणोऽन्यानपेक्षसर्वकर्तृत्वसम्भवान्निरपेक्षनिमित्तत्वं श्रुतम् ।

तथा च मिथोनिरपेक्षेश्वरभूतकर्तृश्रुत्योर्विरोधान्न ब्रह्मणि समन्वय इति सफलं पूर्वपक्षमाह -

नैष दोष इति ।

भूतानां तदभिमानिदेवतानामित्यर्थः । यथा आकाशादिभावापन्नब्रह्मणः सर्वोपादानत्वं तथा तदभिमानिदेवताजीवभावमापन्नब्रह्मणः कर्तृत्वमिति परम्परया ईश्वरकर्तृत्वश्रुत्यविरोधः । स्वयमिति विशेषणमीश्वरान्तरनिरासार्थं न जीवभावापेक्षानिरासार्थमित्येकदेशिसिद्धान्त ऊहनीयः ।