नात्माश्रुतेर्नित्यत्वाच्च ताभ्यः ।
अग्नेर्विस्फुलिङ्गवदेतस्मात्परमात्मनः सर्वे जीवात्मानो व्युच्चरन्ति इत्यादिजीवोत्पत्तिश्रुतीनां 'स एष इह प्रविष्ट आनखाग्रेभ्यः ' 'अज आत्मा' इत्याद्यनुत्पत्तिश्रुतीनां च मिथोविरोधात्संशये मा भूतां देहजन्मनाशयोर्जीवजन्मनाशौ, देहान्तरभोग्यस्वर्गादिहेतुविध्याद्यसम्भवात् , कल्पाद्यन्तयोर्नभस इव जीवस्य तौ किं न स्यातां तत्सम्भवादिति प्रत्युदाहरणेन पूर्वपक्षमाह -
तत्र प्राप्तं तावदिति ।
फलं पूर्ववत् । उपरोधो बाधः ।
नन्वविकृतं ब्रह्मैवात्र प्रविष्टं जीवो न तत्त्वान्तरमिति प्रतिज्ञासिद्धिः, तत्राह -
न चेति ।
जीवः परस्माद्भिन्नः, विरुद्धधर्मवत्त्वाद्भिन्नस्याविकारत्वे प्रतिज्ञाबाध इति तर्कोपेतविभक्तत्वलिङ्गानुगृहीतोत्पत्तिश्रुतेर्बलीयस्त्वात्प्रवेशश्रुतिर्जीवरूपविकारात्मना प्रविष्ट ईश्वर इति व्याख्येयेति समुदायार्थः ।
सरूपेति ।
दृष्टान्तश्रुतेर्भावा जीवा इति निश्चीयते ।
ननु 'आत्मन आकाशः सम्भूतः' इत्यादौ जीवस्योत्पत्त्यश्रवणादनुपत्तिः, तत्राह -
न चेति ।
एवं विकारत्वे सति विकारप्रपञ्चात्मना स्वात्मानमकुरुतेतिवद्विकारजीवात्मना प्रवेश इत्यर्थः ।