ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः ॥ १७ ॥
अस्त्यात्मा जीवाख्यः शरीरेन्द्रियपञ्जराध्यक्षः कर्मफलसम्बन्धी किं व्योमादिवदुत्पद्यते ब्रह्मणः, आहोस्विद्ब्रह्मवदेव नोत्पद्यते, इति श्रुतिविप्रतिपत्तेर्विशयःकासुचिच्छ्रुतिषु अग्निविस्फुलिङ्गादिनिदर्शनैर्जीवात्मनः परस्माद्ब्रह्मण उत्पत्तिराम्नायते; कासुचित्तु अविकृतस्यैव परस्य ब्रह्मणः कार्यप्रवेशेन जीवभावो विज्ञायते, उत्पत्तिराम्नायत इतितत्र प्राप्तं तावत्उत्पद्यते जीव इतिकुतः ? प्रतिज्ञानुपरोधादेव । ‘एकस्मिन्विदिते सर्वमिदं विदितम्इतीयं प्रतिज्ञा सर्वस्य वस्तुजातस्य ब्रह्मप्रभवत्वे सति नोपरुध्येत, तत्त्वान्तरत्वे तु जीवस्य प्रतिज्ञेयमुपरुध्येत अविकृतः परमात्मैव जीव इति शक्यते विज्ञातुम् , लक्षणभेदात्अपहतपाप्मत्वादिधर्मको हि परमात्मा, तद्विपरीतो हि जीवःविभागाच्चास्य विकारत्वसिद्धिःयावान् हि आकाशादिः प्रविभक्तः, सर्वो विकारःतस्य आकाशादेरुत्पत्तिः समधिगता; जीवात्मापि पुण्यापुण्यकर्मा सुखदुःखयुक् प्रतिशरीरं प्रविभक्त इति, तस्यापि प्रपञ्चोत्पत्त्यवसरे उत्पत्तिर्भवितुमर्हतिअपि यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः’ (बृ. उ. २ । १ । २०) इति प्राणादेर्भोग्यजातस्य सृष्टिं शिष्ट्वासर्व एत आत्मानो व्युच्चरन्तिइति भोक्तॄणामात्मनां पृथक्सृष्टिं शास्तियथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाःतथाक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति’ (मु. उ. २ । १ । १) इति जीवात्मनामुत्पत्तिप्रलयावुच्येते, सरूपवचनात्जीवात्मानो हि परमात्मना सरूपा भवन्ति, चैतन्ययोगात्; क्वचिदश्रवणमन्यत्र श्रुतं वारयितुमर्हति, श्रुत्यन्तरगतस्याप्यविरुद्धस्याधिकस्यार्थस्य सर्वत्रोपसंहर्तव्यत्वात्प्रवेशश्रुतिरप्येवं सति विकारभावापत्त्यैव व्याख्यातव्यातदात्मानꣳ स्वयमकुरुत’ (तै. उ. २ । ७ । १) इत्यादिवत्तस्मादुत्पद्यते जीव इति

नात्माश्रुतेर्नित्यत्वाच्च ताभ्यः ।

अग्नेर्विस्फुलिङ्गवदेतस्मात्परमात्मनः सर्वे जीवात्मानो व्युच्चरन्ति इत्यादिजीवोत्पत्तिश्रुतीनां 'स एष इह प्रविष्ट आनखाग्रेभ्यः ' 'अज आत्मा' इत्याद्यनुत्पत्तिश्रुतीनां च मिथोविरोधात्संशये मा भूतां देहजन्मनाशयोर्जीवजन्मनाशौ, देहान्तरभोग्यस्वर्गादिहेतुविध्याद्यसम्भवात् , कल्पाद्यन्तयोर्नभस इव जीवस्य तौ किं न स्यातां तत्सम्भवादिति प्रत्युदाहरणेन पूर्वपक्षमाह -

तत्र प्राप्तं तावदिति ।

फलं पूर्ववत् । उपरोधो बाधः ।

नन्वविकृतं ब्रह्मैवात्र प्रविष्टं जीवो न तत्त्वान्तरमिति प्रतिज्ञासिद्धिः, तत्राह -

न चेति ।

जीवः परस्माद्भिन्नः, विरुद्धधर्मवत्त्वाद्भिन्नस्याविकारत्वे प्रतिज्ञाबाध इति तर्कोपेतविभक्तत्वलिङ्गानुगृहीतोत्पत्तिश्रुतेर्बलीयस्त्वात्प्रवेशश्रुतिर्जीवरूपविकारात्मना प्रविष्ट ईश्वर इति व्याख्येयेति समुदायार्थः ।

सरूपेति ।

दृष्टान्तश्रुतेर्भावा जीवा इति निश्चीयते ।

ननु 'आत्मन आकाशः सम्भूतः' इत्यादौ जीवस्योत्पत्त्यश्रवणादनुपत्तिः, तत्राह -

न चेति ।

एवं विकारत्वे सति विकारप्रपञ्चात्मना स्वात्मानमकुरुतेतिवद्विकारजीवात्मना प्रवेश इत्यर्थः ।