ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
स्वात्मना चोत्तरयोः ॥ २० ॥
उत्क्रान्तिः कदाचिदचलतोऽपि ग्रामस्वाम्यनिवृत्तिवद्देहस्वाम्यनिवृत्त्या कर्मक्षयेणावकल्पेतउत्तरे तु गत्यागती नाचलतः सम्भवतःस्वात्मना हि तयोः सम्बन्धो भवति, गमेः कर्तृस्थक्रियात्वात्अमध्यमपरिमाणस्य गत्यागती अणुत्वे एव सम्भवतःसत्योश्च गत्यागत्योरुत्क्रान्तिरप्यपसृप्तिरेव देहादिति प्रतीयते हि अनपसृप्तस्य देहाद्गत्यागती स्याताम्देहप्रदेशानां उत्क्रान्तावपादानत्ववचनात्चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यः’ (बृ. उ. ४ । ४ । २) इति एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति’ (बृ. उ. ४ । ४ । १) शुक्रमादाय पुनरैति स्थानम्’ (बृ. उ. ४ । ३ । ११) इति चान्तरेऽपि शरीरे शारीरस्य गत्यागती भवतःतस्मादप्यस्याणुत्वसिद्धिः ॥ २० ॥

उत्क्रान्तिरात्मनो देहान्निर्गमो न भवति येनाणुत्वं स्यात्किन्तु स्वामित्वनिवृत्तिरिति केचित् । तदङ्गीकृत्याप्यणुत्वमावश्यकमित्याह -

स्वात्मनेति ।

उत्क्रान्तेरुत्तरयोर्गत्यागत्योः स्वात्मना कर्त्रा सम्बन्धादणुत्वमिति सूत्रयोजना ।

पाकानाश्रयस्य पक्तृत्ववद्गत्यनाश्रयस्यापि गन्तृत्वोक्तिः किं न स्यादित्यत आह -

गमेरिति ।

गमनस्य कर्तरि संयोगविभागरूपातिशयहेतुत्वात्कर्त्राश्रितत्वं लोकसिद्धमित्यर्थः ।

जीवोऽणुरमध्यमपरिमाणत्वे सति गतिमत्त्वात्परमाणुवदित्याह -

अमध्यमेति ।

अङ्गीकारं त्यजति -

सत्योश्चेति ।

न स्वाम्यनिवृत्तिमात्रमुत्क्रान्तिरित्यर्थः ।

देहान्निर्गम एवोत्क्रान्तिरित्यत्र लिङ्गान्तरमाह -

देहप्रदेशानामिति ।

अपादानत्वमवधित्वम् । अन्येभ्यो वा मुखादिभ्य एष आत्मा निष्क्रामतीति शेषः ।

किञ्च देहमध्येऽपि जीवस्य गत्यागतिश्रुतेरणुत्वमित्याह -

स इति ।

इन्द्रियाणि गृह्णन्स्वापादौ हृदयं स जीवो गच्छति शुक्रं प्रकाशकमिन्द्रियग्राममादाय पुनर्जागरितस्थानमागच्छतीत्यर्थः ॥२०॥