ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अविरोधश्चन्दनवत् ॥ २३ ॥
यथा हि हरिचन्दनबिन्दुः शरीरैकदेशसम्बद्धोऽपि सन् सकलदेहव्यापिनमाह्लादं करोति, एवमात्मापि देहैकदेशस्थः सकलदेहव्यापिनीमुपलब्धिं करिष्यतित्वक्सम्बन्धाच्चास्य सकलशरीरगता वेदना विरुध्यतेत्वगात्मनोर्हि सम्बन्धः कृत्स्नायां त्वचि वर्ततेत्वक्च कृत्स्नशरीरव्यापिनीति ॥ २३ ॥

आत्मसंयुक्तायास्त्वचो देहव्यापिस्पर्शोपलब्धिकरणस्य महिम्नात्मनोव्यापिकार्यकारित्वमविरुद्धम् । -

त्वगात्मनोरिति ।

सम्बन्धस्य त्वगवयविनिष्ठत्वादवयविनश्चैकत्वादात्मसंयोगस्य कृत्स्नत्वङ्निष्ठतेत्यर्थः ॥२३॥