ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि ॥ २४ ॥
अत्राहयदुक्तमविरोधश्चन्दनवदिति, तदयुक्तम् , दृष्टान्तदार्ष्टान्तिकयोरतुल्यत्वात्सिद्धे हि आत्मनो देहैकदेशस्थत्वे चन्दनदृष्टान्तो भवति, प्रत्यक्षं तु चन्दनस्यावस्थितिवैशेष्यमेकदेशस्थत्वं सकलदेहाह्लादनं आत्मनः पुनः सकलदेहोपलब्धिमात्रं प्रत्यक्षम् , नैकदेशवर्तित्वम्अनुमेयं तु तदिति यदप्युच्येत अत्रानुमानं सम्भवतिकिमात्मनः सकलशरीरगता वेदना त्वगिन्द्रियस्येव सकलदेहव्यापिनः सतः, किं वा विभोर्नभस इव, आहोस्विच्चन्दनबिन्दोरिवाणोरेकदेशस्थस्य इति संशयानतिवृत्तेरितिअत्रोच्यतेनायं दोषःकस्मात् ? अभ्युपगमात्अभ्युपगम्यते हि आत्मनोऽपि चन्दनस्येव देहैकदेशवृत्तित्वमवस्थितिवैशेष्यम्कथमिति, उच्यतेहृदि ह्येष आत्मा पठ्यते वेदान्तेषु, हृदि ह्येष आत्मा’ (प्र. उ. ३ । ६) वा एष आत्मा हृदि’ (छा. उ. ८ । ३ । ३) कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः’ (बृ. उ. ४ । ३ । ७) इत्याद्युपदेशेभ्यःतस्माद्दृष्टान्तदार्ष्टान्तिकयोरवैषम्यात् युक्तमेवैतत् — ‘अविरोधश्चन्दनवत्इति ॥ २४ ॥

सिद्धे हीति ।

न तु सिद्धमित्यतुल्यतेत्यर्थः । विशेष एव वैशेष्यम् । चन्दनबिन्दोरल्पत्वस्य प्रत्यक्षत्वात्त्वग्व्याप्त्या व्यापिकार्यकारित्वकल्पना युक्ता, जीवस्य त्वणुत्वे सन्देहाद्व्यापिकार्यदृष्ट्या व्यापित्वकल्पनमेव युक्तम् । व्यापिकार्याश्रयो व्यापीत्युत्सर्गादिति सूत्रशङ्काभागार्थः ।

आत्माल्पः, व्यापिकार्यकारित्वात् , चन्दनबिन्दुवदित्यनुमानमयुक्तम् , त्वगादौ व्यभिचारादित्याह -

न चात्रानुमानमिति ।

पूर्वोक्तश्रुतिभिर्जीवस्याणुत्वनिश्चयाद्धृदिस्थत्वश्रुतिभिरेकदेशस्थत्वनिश्चयाच्च न दृष्टान्तवैषम्यमिति परिहारभागार्थमाह -

अत्रोच्यत इति ॥२४॥