तत्रात्माणुत्वविभुत्वश्रुतीनां विरोधादप्रामाण्यप्राप्तावणुत्वं जीवस्य विभुत्वमीश्वरस्येत्यविरोध इत्येकदेशिपक्षो दर्शितः । तं दूषयन्सिद्धान्तसूत्रं व्याचष्टे -
तुशब्द इत्यादिना ।
तस्माद्ब्रह्माभिन्नत्वाद्विभुर्जीवः ब्रह्मवदित्यनुमानानुगृहीते श्रुतिस्मृती आह -
तथा च स वा एष इति ।
नित्यः सर्वगतः स्थाणुरित्याद्याः स्मार्तवादाः । एतेन जीवस्य ब्रह्माभेदज्ञानेऽणुत्वाभावधीस्तस्यां तदित्यन्योन्याश्रय इति निरस्तम् । प्रधानमहावाक्यानुगुणश्रुतिस्मृतिभिरणुत्वाभावनिश्चयानन्तरमभेदज्ञानात्प्रधानवाक्यविरोधे गुणभूताणुत्वश्रुतीनामौपाधिकाणुत्वविषयत्वकल्पनात् । 'गुणे त्वन्याय्यकल्पना' इति न्यायादिति भावः । किञ्च सर्वदेहव्यापिशैत्यानुभवान्यथानुपपत्त्याणुत्वश्रुतयोऽध्यस्ताणुत्वविषयत्वेन कथञ्चिदर्थवादा नेयाः ।
लौकिकन्यायादपि तेषां दुर्बलत्वादिति मत्वाह -
न चाणोरिति ।
शङ्कते -
त्वगिति ।
यद्यण्वात्मसम्बन्धस्य त्वग्व्याप्त्या देहव्यापिनी वेदना स्यात्तर्ह्यतिप्रसङ्ग इति दूषयति -
नेति ।
प्रसङ्गस्येष्टत्वं निरस्यति -
पादतल एवेति ।
तस्मादल्पमहतोः संयोगो न महद्व्यापी, कण्टकसंयोगस्य देहव्याप्त्यदर्शनात् , तथा चाण्वात्मसंयोगस्त्वगेकदेशस्थ एवेति देहव्यापिवेदनानुपपत्तिः । न च सिद्धान्ते त्वगात्मसम्बन्धस्य व्यापित्वात्कण्टकसम्बन्धे देहव्यापिवेदनाप्रसङ्ग इति वाच्यम् । यावती विषयसम्बद्धा त्वक्तावद्व्याप्यात्मसम्बन्धस्तावद्व्यापिवेदनाहेतुरिति नियमात् । न चैवं विषयत्वक्सम्बन्ध एव तद्धेतुरस्तु किमात्मव्याप्त्येति वाच्यम् । वेदना हि सुखं दुःखं तदनुभवश्च, न चैषां व्यापकानां कार्याणामल्पमुपादानं सम्भवति कार्यस्योपादानाद्विश्लेषानुपपत्तेः । न चैषां व्यापकत्वमसिद्धम् , सूर्यतप्तस्य गङ्गानिमग्नस्य सर्वाङ्गव्यापिदुःखसुखानुभवस्य दुरपह्नवत्वात् ।
यदुक्तं गुणस्यापि गुणिविश्लेषो गन्धवदिति, तन्नेत्याह -
न चाणोरिति ।
गन्धो नाश्रयाद्विश्लिष्टः, गुणत्वात् , रूपवदित्यत्रागममाह -
तथा चोक्तमिति ।
न च प्रत्यक्षबाधः, गन्धस्य प्रत्यक्षत्वेऽपि निराश्रयत्वस्याप्रत्यक्षत्वान्महतां त्रसरेणूनामनुद्भूतस्पर्शानामुद्भूतगन्धानामागमनात्स्फुटगन्धोपलम्भसम्भवः, अवयवान्तरप्रवेशान्न सहसा मूलद्रव्यक्षय इति भावः ।
पूर्वं चैतन्यस्य गुणत्वमुपेत्य तद्व्याप्त्या गुण्यात्माणुत्वं निरस्तम् , सम्प्रति तस्य गुणत्वमसिद्धमित्याह -
यदि च चैतन्यमिति ।