ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॥ २९ ॥
कथं तर्हि अणुत्वादिव्यपदेश इत्यत आहतद्गुणसारत्वात्तु तद्व्यपदेश इतितस्या बुद्धेः गुणास्तद्गुणाःइच्छा द्वेषः सुखं दुःखमित्येवमादयःतद्गुणाः सारः प्रधानं यस्यात्मनः संसारित्वे सम्भवति, तद्गुणसारः, तस्य भावस्तद्गुणसारत्वम् हि बुद्धेर्गुणैर्विना केवलस्य आत्मनः संसारित्वमस्तिबुद्ध्युपाधिधर्माध्यासनिमित्तं हि कर्तृत्वभोक्तृत्वादिलक्षणं संसारित्वम् अकर्तुरभोक्तुश्चासंसारिणो नित्यमुक्तस्य सत आत्मनःतस्मात्तद्गुणसारत्वाद्बुद्धिपरिमाणेनास्य परिमाणव्यपदेशः, तदुत्क्रान्त्यादिभिश्च अस्योत्क्रान्त्यादिव्यपदेशः, स्वतःतथा वालाग्रशतभागस्य शतधा कल्पितस्य भागो जीवः विज्ञेयः चानन्त्याय कल्पते’ (श्वे. उ. ५ । ९) इत्यणुत्वं जीवस्योक्त्वा तस्यैव पुनरानन्त्यमाहतच्चैवमेव समञ्जसं स्यात्यद्यौपचारिकमणुत्वं जीवस्य भवेत् , पारमार्थिकं आनन्त्यम् हि उभयं मुख्यमवकल्पेत आनन्त्यमौपचारिकमिति शक्यं विज्ञातुम् , सर्वोपनिषत्सु ब्रह्मात्मभावस्य प्रतिपिपादयिषितत्वात्तथेतरस्मिन्नप्युन्माने बुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो ह्यवरोऽपि दृष्टः’ (श्वे. उ. ५ । ८) इति बुद्धिगुणसम्बन्धेनैव आराग्रमात्रतां शास्ति, स्वेनैवात्मनाएषोऽणुरात्मा चेतसा वेदितव्यः’ (मु. उ. ३ । १ । ९) इत्यत्रापि जीवस्य अणुपरिमाणत्वं शिष्यते, परस्यैवात्मनश्चक्षुराद्यनवग्राह्यत्वेन ज्ञानप्रसादगम्यत्वेन प्रकृतत्वात् , जीवस्यापि मुख्याणुपरिमाणत्वानुपपत्तेःतस्माद्दुर्ज्ञानत्वाभिप्रायमिदमणुत्ववचनम् , उपाध्यभिप्रायं वा द्रष्टव्यम्तथा प्रज्ञया शरीरं समारुह्य’ (कौ. उ. ३ । ६) इत्येवंजातीयकेष्वपि भेदोपदेशेषुबुद्ध्यैवोपाधिभूतया जीवः शरीरं समारुह्यइत्येवं योजयितव्यम् , व्यपदेशमात्रं वाशिलापुत्रकस्य शरीरमित्यादिवत् ह्यत्र गुणगुणिविभागोऽपि विद्यत इत्युक्तम्हृदयायतनत्ववचनमपि बुद्धेरेव तदायतनत्वात्तथा उत्क्रान्त्यादीनामप्युपाध्यायत्ततां दर्शयतिकस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति’ (प्र. उ. ६ । ३) प्राणमसृजत’ (प्र. उ. ६ । ४) इति; उत्क्रान्त्यभावे हि गत्यागत्योरप्यभावो विज्ञायते हि अनपसृप्तस्य देहाद्गत्यागती स्याताम्एवमुपाधिगुणसारत्वाज्जीवस्याणुत्वादिव्यपदेशः, प्राज्ञवत्यथा प्राज्ञस्य परमात्मनः सगुणेषूपासनेषु उपाधिगुणसारत्वादणीयस्त्वादिव्यपदेशःअणीयान्व्रीहेर्वा यवाद्वा’ (छा. उ. ३ । १४ । ३)मनोमयः प्राणशरीरः ... सर्वगन्धः सर्वरसःसत्यकामः सत्यसङ्कल्पः’ (छा. उ. ८ । ७ । १) इत्येवंप्रकारःतद्वत् ॥ २९ ॥

उत्सूत्रं विभुत्वं प्रसाध्याणुत्वाद्युक्तेर्गतिप्रदर्शनार्थं सूत्रं व्याचष्टे -

कथमित्यादिना ।

'अन्तरा विज्ञानमनसी हृदि हि' इति च प्रकृता बुद्धिर्योग्यत्वात्तच्छब्देन परामृश्यते ।

बुद्धिगुणानामात्मन्यध्यासादणुत्वाद्युक्तिर्न स्वतः, आनन्त्यश्रुतिविरोधादित्याह -

तथा चेति ।

अकार्यकारणद्रव्यसमानाधिकरणतया तत्त्वमसीति वाक्यस्य सोऽयमिति वाक्यवदखण्डाभेदार्थत्वादानन्त्यं सत्यमणुत्वमध्यस्तमित्यर्थः । उक्तं चैतदङ्गुष्ठाधिकरणे 'प्रतिपाद्यविरुद्धमुद्देश्यगतविशेषणमविवक्षितम्' इति ।

बालाग्रवाक्यमाराग्रवाक्यं चेत्युन्मानद्वयमुक्तम् । तत्राद्यं निरस्य द्वितीयं निरस्यति -

तथेतरस्मिन्नपीति ।

बुद्धेर्गुणेन निमित्तेनात्मन्यध्यस्तो गुणो भवति तेनात्मगुणेनाध्यस्तेनैवाराग्रपरिमाणोऽपकृष्टश्च जीवो दृष्टः स्वतस्त्वनन्त एवेत्यर्थः ।

'न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा । ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यति निष्कलं ध्यायमानः' इत्युक्त्वा 'एषोऽणुरात्मा' इत्युक्तः पर एव, यदि जीवस्तथाप्यध्यस्ताणुत्वमणुशब्दार्थ इत्याह -

जीवस्यापीति ।

यदुक्तं पृथगुपदेशाच्चैतन्यगुणेनैवात्मनो देहव्याप्तिरिति, तत्राह -

तथा प्रज्ञयेति ।

बुद्धिः प्रज्ञेत्यर्थः ।

यदि चैतन्यं प्रज्ञा तदा भेदोपचार इत्याह -

व्यपदेशमात्रं वेति ।

ननु चैतन्यं गुण इति भेदो मुख्योऽस्तु, नेत्याह -

न ह्यत्रेति ।

निर्गुणत्वश्रुतेरित्यर्थः ।

अन्यदपि पूर्वोक्तं बुद्ध्याद्युपाधिकमित्याह -

हृदयेत्यादिना ।

सौत्रं दृष्टान्तं विवृणोति -

यथेति ।

असत्त्वमित्यापाततः । असंसारित्वमापाद्यम् । शेषं सुबोधम् ॥२९॥