ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॥ २९ ॥
कथं तर्हि अणुत्वादिव्यपदेश इत्यत आह — तद्गुणसारत्वात्तु तद्व्यपदेश इति । तस्या बुद्धेः गुणास्तद्गुणाः — इच्छा द्वेषः सुखं दुःखमित्येवमादयः — तद्गुणाः सारः प्रधानं यस्यात्मनः संसारित्वे सम्भवति, स तद्गुणसारः, तस्य भावस्तद्गुणसारत्वम् । न हि बुद्धेर्गुणैर्विना केवलस्य आत्मनः संसारित्वमस्ति । बुद्ध्युपाधिधर्माध्यासनिमित्तं हि कर्तृत्वभोक्तृत्वादिलक्षणं संसारित्वम् अकर्तुरभोक्तुश्चासंसारिणो नित्यमुक्तस्य सत आत्मनः । तस्मात्तद्गुणसारत्वाद्बुद्धिपरिमाणेनास्य परिमाणव्यपदेशः, तदुत्क्रान्त्यादिभिश्च अस्योत्क्रान्त्यादिव्यपदेशः, न स्वतः । तथा च — ‘वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते’ (श्वे. उ. ५ । ९) इत्यणुत्वं जीवस्योक्त्वा तस्यैव पुनरानन्त्यमाह । तच्चैवमेव समञ्जसं स्यात् — यद्यौपचारिकमणुत्वं जीवस्य भवेत् , पारमार्थिकं च आनन्त्यम् । न हि उभयं मुख्यमवकल्पेत । न च आनन्त्यमौपचारिकमिति शक्यं विज्ञातुम् , सर्वोपनिषत्सु ब्रह्मात्मभावस्य प्रतिपिपादयिषितत्वात् । तथेतरस्मिन्नप्युन्माने ‘बुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो ह्यवरोऽपि दृष्टः’ (श्वे. उ. ५ । ८) इति च बुद्धिगुणसम्बन्धेनैव आराग्रमात्रतां शास्ति, न स्वेनैवात्मना । ‘एषोऽणुरात्मा चेतसा वेदितव्यः’ (मु. उ. ३ । १ । ९) इत्यत्रापि न जीवस्य अणुपरिमाणत्वं शिष्यते, परस्यैवात्मनश्चक्षुराद्यनवग्राह्यत्वेन ज्ञानप्रसादगम्यत्वेन च प्रकृतत्वात् , जीवस्यापि च मुख्याणुपरिमाणत्वानुपपत्तेः । तस्माद्दुर्ज्ञानत्वाभिप्रायमिदमणुत्ववचनम् , उपाध्यभिप्रायं वा द्रष्टव्यम् । तथा ‘प्रज्ञया शरीरं समारुह्य’ (कौ. उ. ३ । ६) इत्येवंजातीयकेष्वपि भेदोपदेशेषु — बुद्ध्यैवोपाधिभूतया जीवः शरीरं समारुह्य — इत्येवं योजयितव्यम् , व्यपदेशमात्रं वा — शिलापुत्रकस्य शरीरमित्यादिवत् । न ह्यत्र गुणगुणिविभागोऽपि विद्यत इत्युक्तम् । हृदयायतनत्ववचनमपि बुद्धेरेव तदायतनत्वात् । तथा उत्क्रान्त्यादीनामप्युपाध्यायत्ततां दर्शयति — ‘कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति’ (प्र. उ. ६ । ३) । ‘स प्राणमसृजत’ (प्र. उ. ६ । ४) इति; उत्क्रान्त्यभावे हि गत्यागत्योरप्यभावो विज्ञायते । न हि अनपसृप्तस्य देहाद्गत्यागती स्याताम् । एवमुपाधिगुणसारत्वाज्जीवस्याणुत्वादिव्यपदेशः, प्राज्ञवत् । यथा प्राज्ञस्य परमात्मनः सगुणेषूपासनेषु उपाधिगुणसारत्वादणीयस्त्वादिव्यपदेशः — ‘अणीयान्व्रीहेर्वा यवाद्वा’ (छा. उ. ३ । १४ । ३) ‘मनोमयः प्राणशरीरः ... सर्वगन्धः सर्वरसः’ ‘सत्यकामः सत्यसङ्कल्पः’ (छा. उ. ८ । ७ । १) इत्येवंप्रकारः — तद्वत् ॥ २९ ॥

उत्सूत्रं विभुत्वं प्रसाध्याणुत्वाद्युक्तेर्गतिप्रदर्शनार्थं सूत्रं व्याचष्टे -

कथमित्यादिना ।

'अन्तरा विज्ञानमनसी हृदि हि' इति च प्रकृता बुद्धिर्योग्यत्वात्तच्छब्देन परामृश्यते ।

बुद्धिगुणानामात्मन्यध्यासादणुत्वाद्युक्तिर्न स्वतः, आनन्त्यश्रुतिविरोधादित्याह -

तथा चेति ।

अकार्यकारणद्रव्यसमानाधिकरणतया तत्त्वमसीति वाक्यस्य सोऽयमिति वाक्यवदखण्डाभेदार्थत्वादानन्त्यं सत्यमणुत्वमध्यस्तमित्यर्थः । उक्तं चैतदङ्गुष्ठाधिकरणे 'प्रतिपाद्यविरुद्धमुद्देश्यगतविशेषणमविवक्षितम्' इति ।

बालाग्रवाक्यमाराग्रवाक्यं चेत्युन्मानद्वयमुक्तम् । तत्राद्यं निरस्य द्वितीयं निरस्यति -

तथेतरस्मिन्नपीति ।

बुद्धेर्गुणेन निमित्तेनात्मन्यध्यस्तो गुणो भवति तेनात्मगुणेनाध्यस्तेनैवाराग्रपरिमाणोऽपकृष्टश्च जीवो दृष्टः स्वतस्त्वनन्त एवेत्यर्थः ।

'न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा । ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यति निष्कलं ध्यायमानः' इत्युक्त्वा 'एषोऽणुरात्मा' इत्युक्तः पर एव, यदि जीवस्तथाप्यध्यस्ताणुत्वमणुशब्दार्थ इत्याह -

जीवस्यापीति ।

यदुक्तं पृथगुपदेशाच्चैतन्यगुणेनैवात्मनो देहव्याप्तिरिति, तत्राह -

तथा प्रज्ञयेति ।

बुद्धिः प्रज्ञेत्यर्थः ।

यदि चैतन्यं प्रज्ञा तदा भेदोपचार इत्याह -

व्यपदेशमात्रं वेति ।

ननु चैतन्यं गुण इति भेदो मुख्योऽस्तु, नेत्याह -

न ह्यत्रेति ।

निर्गुणत्वश्रुतेरित्यर्थः ।

अन्यदपि पूर्वोक्तं बुद्ध्याद्युपाधिकमित्याह -

हृदयेत्यादिना ।

सौत्रं दृष्टान्तं विवृणोति -

यथेति ।

असत्त्वमित्यापाततः । असंसारित्वमापाद्यम् । शेषं सुबोधम् ॥२९॥