ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॥ ३० ॥
नेयमनन्तरनिर्दिष्टदोषप्राप्तिराशङ्कनीया । कस्मात् ? यावदात्मभावित्वाद्बुद्धिसंयोगस्य — यावदयमात्मा संसारी भवति, यावदस्य सम्यग्दर्शनेन संसारित्वं न निवर्तते, तावदस्य बुद्ध्या संयोगो न शाम्यति । यावदेव चायं बुद्ध्युपाधिसम्बन्धः, तावदेवास्य जीवत्वं संसारित्वं च । परमार्थतस्तु न जीवो नाम बुद्ध्युपाधिपरिकल्पितस्वरूपव्यतिरेकेणास्ति । न हि नित्यमुक्तस्वरूपात्सर्वज्ञादीश्वरादन्यश्चेतनो धातुर्द्वितीयो वेदान्तार्थनिरूपणायामुपलभ्यते — ‘नान्योऽतोऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता’ (बृ. उ. ३ । ७ । २३) ‘नान्यदतोऽस्ति द्रष्टृ श्रोतृ मन्तृ विज्ञातृ’ (छा. उ. ३ । ८ । ११) ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘अहं ब्रह्मास्मि’ (बृ. उ. १ । ४ । १०) इत्यादिश्रुतिशतेभ्यः । कथं पुनरवगम्यते यावदात्मभावी बुद्धिसंयोग इति ? तद्दर्शनादित्याह । तथा हि शास्त्रं दर्शयति — ‘योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः स समानः सन्नुभौ लोकावनुसञ्चरति ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इत्यादि । तत्र विज्ञानमय इति बुद्धिमय इत्येतदुक्तं भवति, प्रदेशान्तरे ‘विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः’ इति विज्ञानमयस्य मनआदिभिः सह पाठात् । बुद्धिमयत्वं च तद्गुणसारत्वमेवाभिप्रेयते — यथा लोके स्त्रीमयो देवदत्त इति स्त्रीरागादिप्रधानोऽभिधीयते, तद्वत् । ‘स समानः सन्नुभौ लोकावनुसञ्चरति’ इति च लोकान्तरगमनेऽप्यवियोगं बुद्ध्या दर्शयति — केन समानः ? — तयैव बुद्ध्येति गम्यते, सन्निधानात् । तच्च दर्शयति — ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इति । एतदुक्तं भवति — नायं स्वतो ध्यायति, नापि चलति, ध्यायन्त्यां बुद्धौ ध्यायतीव, चलन्त्यां बुद्धौ चलतीवेति । अपि च मिथ्याज्ञानपुरःसरोऽयमात्मनो बुद्ध्युपाधिसम्बन्धः । न च मिथ्याज्ञानस्य सम्यग्ज्ञानादन्यत्र निवृत्तिरस्तीत्यतो यावद्ब्रह्मात्मतानवबोधः, तावदयं बुद्ध्युपाधिसम्बन्धो न शाम्यति । दर्शयति च — ‘वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् । तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ३ । ८) इति ॥ ३० ॥

ननु स्वतः संसारित्वमस्तु किं बुद्ध्युपाधिनेत्यत आह -

यावदेव चायमिति ।

समानो बुद्धितादात्म्यापन्नः सन् विज्ञानं ब्रह्म तन्मयो विकारोऽणुरित्यर्थः ।

किं न स्यादित्यत आह -

प्रदेशान्तर इति ।

विज्ञानमयो बुद्धिप्रचुर इत्यर्थः । केन समान इत्याकाङ्क्षायामिति शेषः ।

श्रुतिबलाद्बुद्धेर्यावत्संसार्यात्मभावित्वमुक्तम् , सति मूले कार्यस्य वियोगासम्भवाच्चेति युक्त्याप्याह -

अपि च मिथ्येति ।

सम्यग्ज्ञानादेव बुद्ध्यादिबन्धध्वंस इत्यत्र श्रुतिमाह -

दर्शयतीति ।

मृत्युमत्येतीत्यन्वयः । आदित्यवर्णं स्वप्रकाशम् । तमसः परस्तादज्ञानास्पृष्टमित्यर्थः ॥३०॥