ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॥ ३१ ॥
यथा लोके पुंस्त्वादीनि बीजात्मना विद्यमानान्येव बाल्यादिष्वनुपलभ्यमानान्यविद्यमानवदभिप्रेयमाणानि यौवनादिष्वाविर्भवन्ति । न अविद्यमानान्युत्पद्यन्ते, षण्डादीनामपि तदुत्पत्तिप्रसङ्गात् — एवमयमपि बुद्धिसम्बन्धः शक्त्यात्मना विद्यमान एव सुषुप्तप्रलययोः पुनः प्रबोधप्रसवयोराविर्भवति । एवं हि एतद्युज्यते । न हि आकस्मिकी कस्यचिदुत्पत्तिः सम्भवति, अतिप्रसङ्गात् । दर्शयति च सुषुप्तादुत्थानमविद्यात्मकबीजसद्भावकारितम् — ‘सति सम्पद्य न विदुः सति सम्पद्यामह इति ।’ (छा. उ. ६ । ९ । २) ‘त इह व्याघ्रो वा सिꣳहो वा’ (छा. उ. ६ । ९ । ३) इत्यादिना । तस्मात्सिद्धमेतत् — यावदात्मभावी बुद्ध्याद्युपाधिसम्बन्ध इति ॥ ३१ ॥

स्थूलसूक्ष्मात्मना बुद्धेर्यावदात्मभावित्वमस्तीत्याह -

पुंस्त्वेति ।

पुंस्त्वं रेतः । आदिपदेन श्मश्वादिग्रहः । अस्य बुद्धिसम्बन्धस्येत्यर्थः ।

स्वापे बीजात्मना सतो बुद्धयादेः प्रबोधेऽभिव्यक्तिरित्यत्र श्रुतिमाह -

दर्शयतीति ।

न विदुरित्यविद्यात्मकबीजसद्भावोक्तिः । ते व्याघ्रादयः पुनराविर्भवन्ति इत्यभिव्यक्तिनिर्देशः ॥३१॥