ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वान्यथा ॥ ३२ ॥
तच्चात्मन उपाधिभूतम् — अन्तःकरणं मनो बुद्धिर्विज्ञानं चित्तमिति च अनेकधा तत्र तत्राभिलप्यते । क्वचिच्च वृत्तिविभागेन — संशयादिवृत्तिकं मन इत्युच्यते, निश्चयादिवृत्तिकं बुद्धिरिति । तच्चैवंभूतमन्तःकरणमवश्यमस्तीत्यभ्युपगन्तव्यम् , अन्यथा ह्यनभ्युपगम्यमाने तस्मिन्नित्योपलब्ध्यनुपलब्धिप्रसङ्गः स्यात् — आत्मेन्द्रियविषयाणामुपलब्धिसाधनानां सन्निधाने सति नित्यमेवोपलब्धिः प्रसज्येत । अथ सत्यपि हेतुसमवधाने फलाभावः, ततो नित्यमेवानुपलब्धिः प्रसज्येत । न चैवं दृश्यते । अथवा अन्यतरस्यात्मन इन्द्रियस्य वा शक्तिप्रतिबन्धोऽभ्युपगन्तव्यः । न च आत्मनः शक्तिप्रतिबन्धः सम्भवति, अविक्रियत्वात् । नापि इन्द्रियस्य । न हि तस्य पूर्वोत्तरयोः क्षणयोरप्रतिबद्धशक्तिकस्य सतोऽकस्माच्छक्तिः प्रतिबध्येत । तस्मात् यस्यावधानानवधानाभ्यामुपलब्ध्यनुपलब्धी भवतः, तन्मनः । तथा च श्रुतिः — ‘अन्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषम्’ (बृ. उ. १ । ५ । ३) इति, ‘मनसा ह्येव पश्यति मनसा शृणोति’ (बृ. उ. १ । ५ । ३) इति च; कामादयश्चास्य वृत्तय इति दर्शयति — ‘कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव’ (बृ. उ. १ । ५ । ३) इति । तस्माद्युक्तमेतत् — तद्गुणसारत्वात्तद्व्यपदेश इति ॥ ३२ ॥

बुद्धिसद्भावे मानमाह सूत्रकारः -

नित्येति ।

'मनसा ह्येव पश्यति', 'बुद्धिश्च न विचेष्टति', 'विज्ञानं यज्ञं तनुते', 'चेतसा वेदितव्यः', 'चित्तं च चेतयितव्यम्' इति तत्र तत्र श्रुतिषु मनआदिपदवाच्यं तावद्बुद्धिद्रव्यं प्रसिद्धमित्यर्थः ।

कथमेकस्यानेकधोक्तिः, तत्राह -

क्वचिच्चेति ।

गर्ववृत्तिकोऽहङ्कारो विज्ञानं चित्प्रधानं स्मृतिप्रधानं वा चित्तमित्यपि द्रष्टव्यम् ।

यद्यपि साक्षिप्रत्यक्षसिद्धमन्तःकरणं श्रुत्यनूदितं च तथापि प्रत्यक्षश्रुत्योर्विवदमानं प्रति व्यासङ्गानुपपत्त्या तत्साधयति -

तच्चेत्यादिना ।

सूत्रं योजयति -

अन्यथेति ।

पञ्चेन्द्रियाणां पञ्चविषयसम्बन्धे सति नित्यं युगपत्पञ्चोपलब्धयः स्युः, मनोऽतिरिक्तसामग्र्याः सत्त्वात् । यदि सत्यामपि सामग्र्यामुपलब्ध्यभावस्तर्हि सदैवानुपलब्धिप्रसङ्ग इत्यर्थः । अतः कादाचित्कोपलब्धिनियामकं मन एष्टव्यमिति भावः ।

ननु सत्यपि कराग्रिसंयोगे दाहकादाचित्कत्ववदुपलब्धिकादाचित्कत्वमस्तु किं मनसेत्याशङ्क्यान्यतरनियमो वेत्येतद्व्याचष्टे -

अथवेति ।

सत्यां सामग्र्यां नित्योपलब्धिर्वाङ्गीकार्या अन्यतरस्य कारणस्य केनचिच्छक्तिप्रतिबन्धनियमो वाङ्गीकार्यः, यथा मणिनाग्निशक्तिप्रतिबन्ध इति वाकारार्थः ।

अस्तु प्रतिबन्ध इत्यत आह -

न चेति ।

न चेन्द्रियस्यैवास्तु शक्तिप्रतिबन्ध इति वाच्यम् । प्रतिबन्धकाभावात् । न च दृष्टसामग्र्यां सत्यामदृष्टं प्रतिबन्धकमिति युक्तमतिप्रसङ्गात् । न च व्यासङ्गः, प्रतिबन्धकमनोऽसत्त्वे तस्यासम्भवात् । तथा हि - रसादीनां सहोपलब्धिप्राप्तौ रसबुभुत्सारूपो व्यासङ्गो रूपाद्युपलब्धिप्रतिबन्धको वाच्यः, स च गुणत्वाद्रूपवद्गुण्याश्रयः, तत्रात्मनोऽसङ्गनिर्गुणकूटस्थस्य गुणित्वायोगान्मन एव गुणित्वेनैष्टव्यमिति व्यासङ्गानुपपत्त्या मनःसिद्धिः ।

एतदभिप्रेत्योपसंहरति -

तस्मादिति ।

अवधानं बुभुत्सा । न चानिच्छतोऽपि दुर्गन्धाद्युपलम्भान्न बुभुत्सोपलब्धिर्नियामिकेति वाच्यम् , अनेकविषयसन्निधौ क्वचिदेव तस्या नियामकत्वाङ्गीकारात् । तेषां मते पुनरिच्छादीनामात्मधर्मत्वं तेषां मनो दुर्लभमिति मन्तव्यम् । इच्छादिधर्मिणैवात्मना व्यासङ्गोपपत्तेः ।

सम्प्रति व्यासङ्गस्य मानसत्वे श्रुतिमाह -

तथा चेति ।

न केवलं व्यासङ्गान्मनःसिद्धिः, किन्तु कामाद्याश्रयत्वेनापीत्याह -

कामादयश्चेति ।

बुद्धेः प्रामाणिकत्वोक्तिफलमाह -

तस्मादिति ॥३२॥