ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वान्यथा ॥ ३२ ॥
तच्चात्मन उपाधिभूतम्अन्तःकरणं मनो बुद्धिर्विज्ञानं चित्तमिति अनेकधा तत्र तत्राभिलप्यतेक्वचिच्च वृत्तिविभागेनसंशयादिवृत्तिकं मन इत्युच्यते, निश्चयादिवृत्तिकं बुद्धिरितितच्चैवंभूतमन्तःकरणमवश्यमस्तीत्यभ्युपगन्तव्यम् , अन्यथा ह्यनभ्युपगम्यमाने तस्मिन्नित्योपलब्ध्यनुपलब्धिप्रसङ्गः स्यात्आत्मेन्द्रियविषयाणामुपलब्धिसाधनानां सन्निधाने सति नित्यमेवोपलब्धिः प्रसज्येतअथ सत्यपि हेतुसमवधाने फलाभावः, ततो नित्यमेवानुपलब्धिः प्रसज्येत चैवं दृश्यतेअथवा अन्यतरस्यात्मन इन्द्रियस्य वा शक्तिप्रतिबन्धोऽभ्युपगन्तव्यः आत्मनः शक्तिप्रतिबन्धः सम्भवति, अविक्रियत्वात्नापि इन्द्रियस्य हि तस्य पूर्वोत्तरयोः क्षणयोरप्रतिबद्धशक्तिकस्य सतोऽकस्माच्छक्तिः प्रतिबध्येततस्मात् यस्यावधानानवधानाभ्यामुपलब्ध्यनुपलब्धी भवतः, तन्मनःतथा श्रुतिःअन्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषम्’ (बृ. उ. १ । ५ । ३) इति, मनसा ह्येव पश्यति मनसा शृणोति’ (बृ. उ. १ । ५ । ३) इति ; कामादयश्चास्य वृत्तय इति दर्शयतिकामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव’ (बृ. उ. १ । ५ । ३) इतितस्माद्युक्तमेतत्तद्गुणसारत्वात्तद्व्यपदेश इति ॥ ३२ ॥

बुद्धिसद्भावे मानमाह सूत्रकारः -

नित्येति ।

'मनसा ह्येव पश्यति', 'बुद्धिश्च न विचेष्टति', 'विज्ञानं यज्ञं तनुते', 'चेतसा वेदितव्यः', 'चित्तं च चेतयितव्यम्' इति तत्र तत्र श्रुतिषु मनआदिपदवाच्यं तावद्बुद्धिद्रव्यं प्रसिद्धमित्यर्थः ।

कथमेकस्यानेकधोक्तिः, तत्राह -

क्वचिच्चेति ।

गर्ववृत्तिकोऽहङ्कारो विज्ञानं चित्प्रधानं स्मृतिप्रधानं वा चित्तमित्यपि द्रष्टव्यम् ।

यद्यपि साक्षिप्रत्यक्षसिद्धमन्तःकरणं श्रुत्यनूदितं च तथापि प्रत्यक्षश्रुत्योर्विवदमानं प्रति व्यासङ्गानुपपत्त्या तत्साधयति -

तच्चेत्यादिना ।

सूत्रं योजयति -

अन्यथेति ।

पञ्चेन्द्रियाणां पञ्चविषयसम्बन्धे सति नित्यं युगपत्पञ्चोपलब्धयः स्युः, मनोऽतिरिक्तसामग्र्याः सत्त्वात् । यदि सत्यामपि सामग्र्यामुपलब्ध्यभावस्तर्हि सदैवानुपलब्धिप्रसङ्ग इत्यर्थः । अतः कादाचित्कोपलब्धिनियामकं मन एष्टव्यमिति भावः ।

ननु सत्यपि कराग्रिसंयोगे दाहकादाचित्कत्ववदुपलब्धिकादाचित्कत्वमस्तु किं मनसेत्याशङ्क्यान्यतरनियमो वेत्येतद्व्याचष्टे -

अथवेति ।

सत्यां सामग्र्यां नित्योपलब्धिर्वाङ्गीकार्या अन्यतरस्य कारणस्य केनचिच्छक्तिप्रतिबन्धनियमो वाङ्गीकार्यः, यथा मणिनाग्निशक्तिप्रतिबन्ध इति वाकारार्थः ।

अस्तु प्रतिबन्ध इत्यत आह -

न चेति ।

न चेन्द्रियस्यैवास्तु शक्तिप्रतिबन्ध इति वाच्यम् । प्रतिबन्धकाभावात् । न च दृष्टसामग्र्यां सत्यामदृष्टं प्रतिबन्धकमिति युक्तमतिप्रसङ्गात् । न च व्यासङ्गः, प्रतिबन्धकमनोऽसत्त्वे तस्यासम्भवात् । तथा हि - रसादीनां सहोपलब्धिप्राप्तौ रसबुभुत्सारूपो व्यासङ्गो रूपाद्युपलब्धिप्रतिबन्धको वाच्यः, स च गुणत्वाद्रूपवद्गुण्याश्रयः, तत्रात्मनोऽसङ्गनिर्गुणकूटस्थस्य गुणित्वायोगान्मन एव गुणित्वेनैष्टव्यमिति व्यासङ्गानुपपत्त्या मनःसिद्धिः ।

एतदभिप्रेत्योपसंहरति -

तस्मादिति ।

अवधानं बुभुत्सा । न चानिच्छतोऽपि दुर्गन्धाद्युपलम्भान्न बुभुत्सोपलब्धिर्नियामिकेति वाच्यम् , अनेकविषयसन्निधौ क्वचिदेव तस्या नियामकत्वाङ्गीकारात् । तेषां मते पुनरिच्छादीनामात्मधर्मत्वं तेषां मनो दुर्लभमिति मन्तव्यम् । इच्छादिधर्मिणैवात्मना व्यासङ्गोपपत्तेः ।

सम्प्रति व्यासङ्गस्य मानसत्वे श्रुतिमाह -

तथा चेति ।

न केवलं व्यासङ्गान्मनःसिद्धिः, किन्तु कामाद्याश्रयत्वेनापीत्याह -

कामादयश्चेति ।

बुद्धेः प्रामाणिकत्वोक्तिफलमाह -

तस्मादिति ॥३२॥