एवमात्मन्यणुत्वाध्यासोक्त्या स्वाभाविकं महत्त्वं स्थापितम् । सम्प्रति ततो बहिष्ठं कर्तृत्वं साधयति -
कर्ता शास्त्रार्थवत्त्वात् ।
स नित्यश्चिद्रूपो महानात्मा कर्ता न वेत्यसङ्गत्वश्रुतीनां विध्यादिश्रुतीनां च विप्रतिपत्त्या संशये बुद्धिकर्तृत्वेनैव विध्यादिशास्त्रोपपत्तेरकर्तात्मेति साङ्ख्यपक्षप्राप्तौ सिद्धान्तयन्नैव तद्गुणसारत्वोक्त्यात्मनि कर्तृत्वाध्यासस्यापि सिद्धत्वात्पुनरुक्तिमाशङ्क्य साङ्ख्यपक्षनिरासार्थमात्मनि कर्तृत्वाध्यासप्रपञ्चनान्न पुनरुक्तिरित्याह -
तद्गुणेति ।
अधिकारः प्रसङ्गः । वस्तुतोऽसङ्गत्वम् । अविद्यातः कर्तृत्वमित्यसङ्गत्वकर्तृत्वश्रुतीनामविरोधोक्तेः कर्तृत्वविचारात्मकाधिकरणत्रयस्य पादसङ्गतिः । श्रुतीनां मिथो विरोधाविरोधौ पूर्वोत्तरपक्षयोः फलम् । यद्वात्र पूर्वपक्षे बन्धाभावाच्छास्त्रवैयर्थ्यं फलम् , सिद्धान्ते कर्तृत्वादिसम्बन्धसत्त्वाच्छास्त्रार्थवत्तेति भेदः ।
ननु बुद्धिकर्तृत्वेन शास्त्रार्थवत्तास्तु किं जीवकर्तृत्वेन तत्राह -
तद्धि कर्तुः सत इति ।
मयेदं कर्तव्यमिति बोधसमर्थस्य चेतनस्यैव कर्तृत्वं वाच्यं न त्वचेतनाया बुद्धेः । किं च भोक्तुरात्मन एव कर्तृता वाच्या 'शास्त्रफलं प्रयोक्तरि' इति न्यायादिति भावः ॥३३॥
सन्ध्यं स्थानं स्वप्नः । अमृतः स आत्मा यथेष्टमीयते गच्छतीति विहारोपदेशात् , आत्मा कर्ता ॥३४॥
प्राणानां मध्ये विज्ञानेन बुद्ध्या विज्ञानसमर्थमिन्द्रियजातमादाय शेते इति प्राणान् गृहीत्वा परिवर्तत इति उपादानकर्तृत्वमात्मनः अकर्तृत्वे उपादानानुपपत्तेरिति भावः ॥३५॥
विज्ञानशब्दो जीवस्य निर्देशो न चेत्तदा प्रथमानिर्देशाद्विपर्ययः । करणद्योतितृतीयया निर्देशः स्यात् । तस्मादिह श्रुतौ तनुत इत्याख्यातेन कर्तृवाचिना विज्ञानपदस्य सामानाधिकरण्यनिर्देशात्क्रियायामात्मनः कर्तृत्वं सूच्यत इति सूत्रभाष्ययोरर्थः ॥३६॥