ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
समाध्यभावाच्च ॥ ३९ ॥
योऽप्ययमौपनिषदात्मप्रतिपत्तिप्रयोजनः समाधिरुपदिष्टो वेदान्तेषुआत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. २ । ४ । ५)सोऽन्वेष्टव्यः विजिज्ञासितव्यःओमित्येवं ध्यायथ आत्मानम्’ (मु. उ. २ । २ । ६) इत्येवंलक्षणः, सोऽप्यसत्यात्मनः कर्तृत्वे नोपपद्येततस्मादप्यस्य कर्तृत्वसिद्धिः ॥ ३९ ॥

ज्ञानसाधनविध्यन्यथानुपपत्त्याप्यात्मनः कर्तृत्वं वाच्यमित्याह -

समाधीति ।

मुक्तिफलभोक्तुरेव तदुपायसमाधिकर्तृत्वं युक्तम् , अन्यथात्मनोऽकर्तृत्वे बुद्धेरपि अभोक्त्र्याः कर्तृत्वायोगात्समाध्यभावप्रसङ्ग इत्यर्थः ॥३९॥