यथा च तक्षोभयथा ।
उक्तमात्मनः कर्तृत्वमुपजीव्य संशयपूर्वपक्षावाह -
एवं तावदित्यादिना ।
साङ्ख्यनिरासेनात्मनः कर्तृत्वे साधिते बाधकाभावात्तत्सत्यमिति मीमांसकादिपक्षः प्राप्तः । न चासङ्गत्वागमेन बाधः, अहं कर्तेत्यनुभवसहितकर्तृत्वश्रुतिबलेन तस्यागमस्य स्तावकत्वादिति प्राप्त उत्सूत्रमेव सिद्धान्तयति -
न स्वाभाविकमिति ।
यदुक्तं बाधकाभावादिति तदसिद्धमित्याह -
अनिर्मोक्षेति ।
ननु कर्तृत्वं नाम क्रियाशक्तिर्मुक्तावप्यस्ति तथापि शक्तिकार्यस्य क्रियारूपशक्यस्याभावान्मुक्तेः पुरुषार्थत्वसिद्धिरिति शङ्कते -
ननु स्थितायामिति ।
सत्यां शक्तौ कथं कार्यपरिहारः, तत्राह -
तत्परिहारश्चेति ।
मुक्तौ शक्तिसत्त्वे कार्यमपि स्यात् , शक्याभावे शक्त्ययोगात् ।
अस्ति हि प्रलयेऽपि कार्यं पुनरुद्भवयोग्यं सूक्ष्मं शक्यम् , तथा च शक्त्या धर्मादिनिमित्तैः सहितकार्याक्षेपान्मुक्तिलोप इति परिहरति -
न निमित्तानामपीति ।
सनिमित्तस्य कार्यस्य शक्यत्वेन शक्त्या सम्बन्धान्नमित्तानामपि परम्परया शक्तिसम्बन्धित्वमुक्तं मन्तव्यम् । सम्बन्धेन सम्बन्धिनेत्यर्थः । यद्वा शक्तिर्लक्षणमाक्षेपकं यस्य कार्यस्य तेन कार्येण यः सम्बन्धस्तेनेति व्यधिकरणे तृतीये ।
ननु नरस्य कर्मणा देवत्ववच्छास्त्रबलात्कर्तुरेवाकर्तृतासिद्धिरिति शङ्कते -
नन्विति ।
ज्ञानादकर्तृत्वाख्यमोक्षश्चेत्कर्तृत्वमाविद्यकं स्याद्यतो ज्ञानमज्ञानस्यैव निवर्तकम् ।
यदि कर्मणा मोक्षः तत्राह -
नेति ।
आत्मनः स्वाभाविकं कर्तृत्वमभ्युपगम्यानिर्मोक्ष उक्तः । सम्प्रत्यसङ्गनिर्विकारत्वानेकश्रुतिव्याकोपात्तन्न स्वाभाविकमित्याह -
अपि चेति ।
न चाभ्यस्तानेकश्रुतीनां स्तावकत्वकल्पनं युक्तम् , न चाहं कर्तेत्यनुभवो विरुध्यते, तस्य सत्यमिथ्योदासीनकर्तृत्वावगाहिनोऽध्यासत्वेनाप्युपपत्तेरित्यर्थः ।
कर्तृत्वस्याध्यस्तत्वे श्रुतिमाह -
तथा चेति ।
विद्वदनुभवबाधितं च कर्तृत्वमित्याह -
न हीति ।
बुद्ध्यादिसङ्घाताद्व्यतिरिक्तो यदि परस्मादन्यश्चेतनो न स्यात्तदा पर एव संसारी प्रसज्येत, तच्चानिष्टम् , परस्य नित्यमुक्तत्वव्याघातादिति शङ्कते -
पर एवेति ।
न वयं शुद्धस्य चिद्धातोः परस्य बन्धं वदामः, किन्तु तस्यैवाविद्याबुद्ध्यादिप्रतिबिम्बितस्याविद्यया भिन्नस्य जीवत्वं प्राप्तस्य बन्धमोक्षाविति ब्रूमः ।
कल्पितभेदोऽपि लोके बिम्बप्रतिबिम्बयोर्धर्मव्यवस्थापको दृष्ट इति परिहरति -
नाविद्येति ।
अविद्योपहिते बन्धो न शूद्धात्मनीत्यत्र श्रुतिमाह -
तथा चेति ।
कर्तृत्वस्य बुद्ध्युपाध्यन्वयव्यतिरेकानुविधायित्वाच्छ्रुतेश्च न स्वाभाविकत्वमित्याह -
तथा स्वप्नेति ।
आत्मैव काम्यते आनन्दत्वादित्यात्मकामं स्वरूपं स्वातिरिक्तकाम्यासत्त्वादकामम् , आत्मकामत्वादकामत्वाच्चाप्तकामं विशोकत्वाच्चेत्याह -
शोकेति ।
शोकान्तरं दुःखास्पृष्टमित्यर्थः ।
तस्यैव सुषुप्तात्मरूपस्य परमपुरुषार्थतामाह -
एष इति ।
गतिः प्राप्यम् , सम्पदैश्वर्यं लोको बोग्यं सुखम् , चैतस्मादन्यत्रास्तीत्यर्थः ।