आत्मा स्वतोऽकर्ता बुद्ध्याद्युपाधिना तु कर्तेत्युभयथाभाव उक्तः । तत्रार्थे सूत्रं योजयति -
तदेतदाहेत्यादिना ।
सम्प्रसादः सुषुप्तिः । यथा स्फटिकस्य लौहित्यं कुसुमाद्युपाधिकं तथात्मनः कर्तृत्वं बुद्ध्याद्युपाधिकमन्वयव्यतिरेकाभ्यां सिद्धम् । न च तौ बुद्धेरात्मकर्तृत्वे करणत्वविषयौ नोपादानत्वविषयाविति युक्तम् , करणत्वात्कार्यान्वय्युपादानत्वस्यान्तरङ्गतया चित्संवलितबुद्धेस्ताभ्यामुपादानत्वस्यैव सिद्धेः, एवं चिदभेदेनाध्यस्तबुद्ध्याख्याहङ्कारस्य कर्तृत्वोपादानत्वेन महावाक्यसम्मतिश्चेति भावः ।
ननु तक्षा स्वहस्तादिना वास्यादिप्रेरणशक्तत्वात्स्वतः कर्ता आत्मा तु निरवयवत्वादशक्त इति दृष्टान्तवैषम्यमाशङ्क्यौपाधिककर्तृत्वांशेन विवक्षितेन साम्यमाह -
तक्षदृष्टान्तश्चेति ।