ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
यथा च तक्षोभयथा ॥ ४० ॥
यत्तूक्तम् , शास्त्रार्थवत्त्वादिभिर्हेतुभिः स्वाभाविकमात्मनः कर्तृत्वमिति, तन्नविधिशास्त्रं तावद्यथाप्राप्तं कर्तृत्वमुपादाय कर्तव्यविशेषमुपदिशति, कर्तृत्वमात्मनः प्रतिपादयति स्वाभाविकमस्य कर्तृत्वमस्ति, ब्रह्मात्मत्वोपदेशात्इत्यवोचामतस्मादविद्याकृतं कर्तृत्वमुपादाय विधिशास्त्रं प्रवर्तिष्यतेकर्ता विज्ञानात्मा पुरुषःइत्येवंजातीयकमपि शास्त्रमनुवादरूपत्वाद्यथाप्राप्तमेवाविद्याकृतं कर्तृत्वमनुवदिष्यतिएतेन विहारोपादाने परिहृते, तयोरप्यनुवादरूपत्वात्ननु सन्ध्ये स्थाने प्रसुप्तेषु करणेषु स्वे शरीरे यथाकामं परिवर्ततेइति विहार उपदिश्यमानः केवलस्यात्मनः कर्तृत्वमावहतितथोपादानेऽपि तदेषां प्राणानां विज्ञानेन विज्ञानमादाय’ (बृ. उ. २ । १ । १७) इति करणेषु कर्मकरणविभक्ती श्रूयमाणे केवलस्यात्मनः कर्तृत्वं गमयत इतिअत्रोच्यते तावत्सन्ध्ये स्थानेऽत्यन्तमात्मनः करणविरमणमस्ति, सधीः स्वप्नो भूत्वेमं लोकमतिक्रामति’ (बृ. उ. ४ । ३ । ७) इति तत्रापि धीसम्बन्धश्रवणात्तथा स्मरन्ति — ‘इन्द्रियाणामुपरमे मनोऽनुपरतं यदिसेवते विषयानेव तद्विद्यात्स्वप्नदर्शनम्इतिकामादयश्च मनसो वृत्तयः इति श्रुतिःताश्च स्वप्ने दृश्यन्तेतस्मात्समना एव स्वप्ने विहरतिविहारोऽपि तत्रत्यो वासनामय एव, तु पारमार्थिकोऽस्तितथा श्रुतिः इवकारानुबद्धमेव स्वप्नव्यापारं वर्णयतिउतेव स्त्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन्’ (बृ. उ. ४ । ३ । १३) इतिलौकिका अपि तथैव स्वप्नं कथयन्तिआरुक्षमिव गिरिशृङ्गम् , अद्राक्षमिव वनराजिमितितथोपादानेऽपि यद्यपि करणेषु कर्मकरणविभक्तिनिर्देशः, तथापि तत्संपृक्तस्यैवात्मनः कर्तृत्वं द्रष्टव्यम् , केवले कर्तृत्वासम्भवस्य दर्शितत्वात्भवति लोकेऽनेकप्रकारा विवक्षायोधा युध्यन्ते, योधै राजा युध्यत इतिअपि अस्मिन्नुपादाने करणव्यापारोपरममात्रं विवक्ष्यते, स्वातन्त्र्यं कस्यचित् , अबुद्धिपूर्वकस्यापि स्वापे करणव्यापारोपरमस्य दृष्टत्वात्यस्त्वयं व्यपदेशो दर्शितः, ‘विज्ञानं यज्ञं तनुतेइति, बुद्धेरेव कर्तृत्वं प्रापयतिविज्ञानशब्दस्य तत्र प्रसिद्धत्वात् , मनोऽनन्तरं पाठाच्च, तस्य श्रद्धैव शिरः’ (तै. उ. २ । ४ । १) इति विज्ञानमयस्यात्मनः श्रद्धाद्यवयवत्वसङ्कीर्तनात्श्रद्धादीनां बुद्धिधर्मत्वप्रसिद्धेः, विज्ञानं देवाः सर्वे ब्रह्म ज्येष्ठमुपासते’ (तै. उ. २ । ५ । १) इति वाक्यशेषात्ज्येष्ठत्वस्य प्रथमजत्वस्य बुद्धौ प्रसिद्धत्वात् , ‘ एष वाचश्चित्तस्योत्तरोत्तरक्रमो यद्यज्ञःइति श्रुत्यन्तरे यज्ञस्य वाग्बुद्धिसाध्यत्वावधारणात् बुद्धेः शक्तिविपर्ययः करणानां कर्तृत्वाभ्युपगमे भवति, सर्वकारकाणामेव स्वस्वव्यापारेषु कर्तृत्वस्यावश्यंभावित्वात्उपलब्ध्यपेक्षं त्वेषां करणानां करणत्वम्सा चात्मनः तस्यामप्यस्य कर्तृत्वमस्ति, नित्योपलब्धिस्वरूपत्वात्अहंकारपूर्वकमपि कर्तृत्वं नोपलब्धुर्भवितुमर्हति, अहंकारस्याप्युपलभ्यमानत्वात् चैवं सति करणान्तरकल्पनाप्रसङ्गः, बुद्धेः करणत्वाभ्युपगमात्समाध्यभावस्तु शास्त्रार्थवत्त्वेनैव परिहृतः, यथाप्राप्तमेव कर्तृत्वमुपादाय समाधिविधानात्तस्मात्कर्तृत्वमप्यात्मन उपाधिनिमित्तमेवेति स्थितम् ॥ ४० ॥

शास्त्रेणानूद्यमानं कर्तृत्वं स्वाभाविकमेव किं न स्यादित्यत आह -

न च स्वाभाविकमिति ।

उपाध्यभावकाले श्रुतं कर्तृत्वं स्वाभाविकमेवेति शङ्कते -

ननु सन्ध्य इति ।

किञ्च करणैर्विशिष्टस्य कर्तृत्वे तेषां कर्त्रन्तर्भावात्तेष्वपि कर्तृविभक्तिः स्यात् । न चैवमस्ति ततः केवलात्मनः कर्तृत्वमित्याह -

तथेति ।

स्वप्नविहारे तावदुपाध्यभावोऽसिद्ध इत्याह -

न तावत्सन्ध्य इति ।

विहारस्य मिथ्यात्वात्तत्कर्तृत्वमपि मिथ्येत्याह -

विहारोऽपीति ।

जक्षत्भुञ्जान इव ।

करणत्वविशिष्टस्य कर्तृत्वे करणेषु कर्तृविभक्तिः स्यात् , न करणविभक्तिरित्युक्तं प्रत्याह -

भवति च लोक इति ।

कर्तृष्वपि करणविभक्तिर्न विरुध्यते दृष्टत्वात् । अस्ति च कर्तृत्वप्रयोगः, 'विज्ञानं यज्ञं तनुते' इत्यादाविति भावः ।

उपादानस्य सकर्तृकत्वमङ्गीकृत्य केवलात्मनः कर्तृत्वं निरस्तम् । इदानीं तस्याक्रियत्वान्न कर्त्रपेक्षेत्याह -

अपि चेति ।

पूर्वं विज्ञानं जीव इत्यङ्गीकृत्य जीवस्य कर्तृत्वे तनुत इति श्रुतिरुक्ता, सम्प्रति तया श्रुत्यानुपहितात्मनः कर्तृत्वमिति प्राप्तौ विज्ञानं बुद्धिरेव तस्या एवात्र कर्तृत्वमुच्यते । तदुपहितात्मनः कर्तृत्वसिद्धय इत्यभिप्रेत्याह -

यस्त्विति ।

'योऽयं विज्ञानमयः' इत्यादिश्रुतिषु विज्ञानब्दस्य बुद्धौ प्रसिद्धत्वादत्र च मनोमयकोशानन्तरं पठितत्वाच्छ्रद्धादिलिङ्गाच्च बुद्धिरेव विज्ञानमित्यर्थः ।

तत्रैव लिङ्गान्तरमाह -

विज्ञानं देवा इति ।

'महद्यक्षं प्रथमजम्' इत्यादिश्रुतौ हिरण्यगर्भब्रह्मात्मकबुद्धेर्ज्येष्ठत्वोक्तेरत्र देवैरिन्द्रियैरूपास्यमानं ज्येष्ठं ब्रह्म विज्ञानं बुद्धिरेवेत्यर्थः । यक्षं पूज्यम् ।

किञ्च श्रुत्यन्तरे यज्ञस्य बुद्धिकार्यत्वोक्तेरत्रापि यज्ञकर्तृविज्ञानं बुद्धिरित्याह -

स एष इति ।

चित्तेन ध्यात्वा वाचा मन्त्रोक्त्या यज्ञो जायते ततश्चित्तस्य वाचः पूर्वोत्तरभावो यज्ञ इत्यर्थः ।

यच्चोक्तं बुद्धेः कर्तृत्वे शक्तिवैपरीत्यप्रसङ्ग इति । तन्न विक्लिद्यन्ते तण्डुलाः, ज्वलन्ति काष्ठानि, बिभर्ति स्थालीति स्वस्वव्यापारेषु सर्वकारकाणां कर्तृत्वस्वीकारादित्याह -

न चेति ।

तर्हि बुद्ध्यादीनां कर्तृत्वे करणत्ववार्ता तेषु न स्यादित्यत आह -

उपलब्धीति ।

यथा काष्ठानां स्वव्यापारे कर्तृत्वेऽपि पाकापेक्षया करणत्वं तथा बुद्ध्यादीनामध्यवसायसङ्कल्पादिक्रियाकर्तृत्वेऽप्युपलब्ध्यपेक्षया करणत्वमित्यर्थः ।

ननु तर्ह्युपलब्धिः कस्य व्यापार इत्याह -

सा चेति ।

तर्हि तस्यामात्मा केवलः कर्ता स्यात् , यस्य यो व्यापारः स तस्य कर्तेति स्थितेरित्यत आह -

न चेति ।

उपलब्धेर्नित्यत्वे बुद्ध्यादीनां कथं करणत्वमुक्तमिति चेदुच्यते - अखण्डसाक्षिचैतन्यं बुद्धिवृत्तिभिर्भिन्नं सद्विषयावाच्छिन्नत्वेन जायते, तथा च विषयावच्छिन्न चैतन्याख्योपलब्धौ बुद्ध्यादीनां करणत्वं बुद्ध्याद्युपहितात्मनः कर्तृत्वं न केवलस्य, न च बुद्धेरेव तत्कर्तृत्वं चैतन्यस्य जडव्यापारत्वायोगादिति भावः ।

यच्चोक्तं बुद्धेः कर्तृत्वे स एवाहन्धीगम्यो जीव इति तस्य करणान्तरं कल्पनीयम् , तथा च नाममात्रे विवाद इति तत्र केवलात्मनः कर्तृत्वमुक्तमिति भ्रान्तिं निरस्यति -

अहङ्कारेति ।

साङ्ख्यनिरासार्थं बुद्ध्यभेदेनाध्यस्तचिदात्मकाहङ्कारगतं कर्तृत्वं यदुक्तं तदहन्धीगम्यस्य बुद्धिविशिष्टात्मन एव न केवलस्य साक्षिणो भवितुमर्हति, दृश्यधर्मस्य साक्षिस्वभावत्वायोगात् । एवं विशिष्टात्मनः कर्तृत्वे विशेषणीभूताया जडबुद्धेरेव करणत्वोपपत्तेर्न करणान्तरकल्पनाप्रसङ्गः । अध्यासं विना केवलबुद्धिकर्तृत्ववादिनस्तु करणान्तरप्रसङ्गो दुर्वार इत्यर्थः । एवं शास्त्रार्थवत्त्वादिहेतूनामात्मनः कर्तृत्वमात्रसाधकत्वेऽपि स्वाभाविककर्तृत्वसाधनसामर्थ्याभावादध्यस्तमेव कर्तृत्वं विध्यादिकर्तृत्वश्रुतीनामुपजीव्यम् । तस्मादसङ्गत्वविध्यादिकर्तृत्वश्रुतीनामविरोध इति सिद्धम् ॥४०॥