परात्तु तच्छ्रुतेः ।
यथा स्फटिके लौहित्याध्यासे लोहितद्रव्यं करणं तेनायं स्फटिको लोहित इत्यनुभवात् , तथा कामादिपरिणामिबुद्धिरात्मनि कर्तृत्वाद्यध्यासे करणमित्युक्तम् । तदध्यस्तं कर्तृत्वमुपजीव्य जीवस्य कारकसम्पन्नत्वादीश्वरस्य कारयितृत्वश्रुतेश्च संशयमाह -
यदिदमिति ।
अत्र 'एष ह्येव' इत्यादिश्रुतीनां कर्तृस्वातन्त्र्यद्योतकविध्यादिश्रुतिभिर्विरोधसमाधानात्पादसङ्गतिः ।
कर्ममीमांसकमतेन पूर्वपक्षयति -
तत्रेत्यादिना ।
बुद्ध्यादिकारकसम्पत्तावीश्वरव्यतिरेके कर्तृत्वव्यतिरेकानुपलब्धेर्नेश्वरः प्रयोजकः ।
किञ्च प्रयोजकत्वे नैर्घृण्यादिप्रसङ्ग इत्याह -
क्लेशात्मकेन चेति ।
दत्तोत्तरमिदं चोद्यमिति शङ्कते -
नन्विति ।
पूर्वं जीवस्य धर्माधर्मवत्त्वं सिद्धवत्कृत्य तत्सापेक्षत्वाद्विषमजगत्कर्तृत्वमविरुद्धमित्युक्तं सम्प्रति ईश्वराधीनत्वे जीवस्य कर्तृत्वे सिद्धे धर्माधर्मवत्त्वसिद्धिः, तद्वत्त्वसिद्धौ तत्सापेक्षकारयितृत्वसिद्धिः, ईश्वरस्य कारयितृत्वे सिद्धे जीवस्य कर्तृत्वसिद्धिरिति चक्रकापत्तेः कर्मसापेक्षत्वं न सम्भवतीत्युच्यत इत्याह -
सत्यमिति ।
अस्तु कर्मानपेक्षस्य प्रवर्तकत्वम् , तत्राह -
अकृतेति ।
अनपेक्षस्य प्रवर्तकत्वे धर्मवतो नरान् दुःखेनाधर्मवतः सुखेन योजयेत् , कारुणिकत्वे वा सर्वे सुखेन एकरूपाः स्युरिति जगद्वैचित्र्यं विध्यादिशास्त्रं च न स्यात् । तस्माद्विध्यादिशास्त्रार्थवत्त्वाय रागद्वेषायत्तं स्वत एव जीवस्य कर्तृत्वं वाच्यम् , तथा च कारयितृत्वश्रुतिविरोधः ।
ईश्वरस्ताविका वा सा श्रुतिरिति प्राप्ते सिद्धान्तयति -
एतामिति ।
यथा चन्दनादिसामग्र्यां सत्यां धर्मव्यतिरेके सुखव्यतिरेकग्रहाभावेऽपि 'पुण्यो वै पुण्येन कर्मणा भवति' इत्यादिशास्त्रप्रामाण्यादेव धर्मस्य हेतुत्वसिद्धिः, एवमीश्वरस्यापि शास्त्रबलात्कारयितृत्वसिद्धिरिति भावः ॥४१॥