धर्माधर्माभ्यामेव फलवैषम्यसिद्धेरलमीश्वरेणेत्याशङ्क्य बीजैरेवाङ्कुरवैषम्यसिद्धेः पर्जन्यवैयर्थ्यं स्यात् । यदि विशेषहेतूनां साधारणहेत्वपेक्षत्वान्न वैयर्थ्यं तर्हि ईश्वरस्यापि साधारणहेतुत्वान्न वैयर्थ्यमित्याह -
पर्जन्यवदिति ।
दृष्टान्तं विवृणोति -
यथेति ।
अतिदीर्घवल्लीग्रन्थयो गुच्छाः पुष्पस्तबका वा, गुल्मास्तु ह्रस्ववल्ल्य इति भेदः ।
किमीश्वरस्य कारयितृत्वे जीवस्य कर्तृत्वं न स्यादित्यापाद्यते उत चक्रकापत्तिर्वा । नाद्य इत्याह -
नैष दोष इति ।
अध्यापकाधीनस्य बटोर्मुख्याध्ययनकर्तृत्वदर्शनादिति भावः ।
चक्रकं निरस्यति -
अपि चेति ।
अनवद्यं जीवस्य कर्तृत्वमीश्वरस्य कारयितृत्वं चेति शेषः ।
ईश्वरस्य सापेक्षत्वे विध्यादिशास्त्रप्रामाण्यान्यथानुपपत्तिं प्रमाणयति -
कथमित्यादिना ।
एवं सापेक्षत्वे सत्यवैयर्थ्यं भवति, अन्यथानपेक्षत्वे वैयर्थ्यं प्रपञ्चयति -
ईश्वर इति ।
तयोः स्थाने स एव नियुज्येत अभिषिच्येत । तयोः कार्यं स एव कुर्यादिति यावत् । तथा च जीवस्य निरपेक्षेश्वरपरतन्त्रत्वाद्विध्यादिशास्त्रमकिञ्चित्करमनर्थकं स्यादिति सम्बन्धः । पुरुषकारः प्रयत्नः ।
आदिशब्दार्थमाह -
तथेति ।
पूर्वोक्तदेषोऽकृताभ्यागमादिः । तस्मात्कर्मसापेक्षेश्वरस्य कारयितृत्वात् 'एष ह्येव' इत्यादिश्रुतेर्विध्यादिश्रुत्यविरोध इति सिद्धम् ॥४२॥