अंश एके ।
'नित्यः स्वप्रकाशोऽनणुरकर्ता जीव' इति शोधितत्वम्पदार्थस्यात्र ब्रह्मैक्यसाधनेन भेदाभेदश्रुतीनां विरोधसमाधानात्पादसङ्गतिः । पूर्वपक्षे प्रत्यगभिन्नब्रह्मसिद्धिः, सिद्धान्ते तत्सिद्धिरिति भेदः । पूर्वोक्तोपकार्योपकारकभावाक्षिप्तं जीवेशयोः सम्बन्धं विषयीकृत्य द्विविधदृष्टान्तदर्शनात्संशयमाह -
ततश्चेति ।
प्रसिद्धस्वस्वामित्वसम्बन्धसम्भवाद्यः कश्चित्सम्बन्ध इत्यनियमो न युक्त इत्यरुचेराह -
अथवेति ।
अनेन 'य आत्मनि तिष्ठन्' इत्यादिश्रुतिप्रसिद्धभेदकोटिर्दर्शिता । एवं तत्त्वमसीत्यादिश्रुतिसिद्धा भेदकोटिर्द्रष्टव्या, तथा च भेदाभेदश्रुतीनां समबलत्वाद्विरोधे सति सम्बन्धानिश्चयात्सम्बन्धापेक्षस्य पूर्वोक्तोपकार्योपकारकभावस्यासिद्धिरित्याक्षेपात्सङ्गतिः ।