ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
स्मरन्ति च ॥ ४७ ॥
स्मरन्ति व्यासादयःयथा जैवेन दुःखेन परमात्मा दुःखायत इति; ‘तत्र यः परमात्मा हि नित्यो निर्गुणः स्मृतः ।’,‘ लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसाकर्मात्मा त्वपरो योऽसौ मोक्षबन्धैः युज्यते ॥’,‘ सप्तदशकेनापि राशिना युज्यते पुनःइतिचशब्दात् समामनन्ति इति वाक्यशेषःतयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति’ (श्वे. उ. ४ । ६) इति, एकस्तथा सर्वभूतान्तरात्मा लिप्यते लोकदुःखेन बाह्यः’ (क. उ. २ । २ । ११) इति ॥ ४७ ॥

स्मृत्याप्यनुमानं बाध्यमित्याह -

स्मरन्ति चेति ।

सूत्रं व्याचष्टे -

स्मरन्तीति ।

तत्र जीवपरयोर्मध्ये कर्मात्मा कर्माश्रयो जीवः । दशेन्द्रियाणि पञ्च प्राणाः मनो बुद्धिश्चेति सप्तदशसङ्ख्याको राशिर्लिङ्गम् ।

सूत्रे चशब्दः श्रुतिसमुच्चयार्थ इत्याह -

चशब्दादिति ।

यथादित्यः प्राकाश्यदोषैर्न लिप्यते तथेत्यर्थः ।

यतो बाह्योऽसङ्गस्तस्मान्न लिप्यते एवमंशित्वकृतमीश्वरे दोषं निरस्यांश इत्युक्तं जीवस्यांशत्वं देहाद्युपाधिकमिति स्फुटयितुमत्यन्तस्वरूपैक्यमादायाक्षिपति -

अत्राहेत्यादिना ।

कथं तर्हि इत्यन्वयः । तद्भेदादंशभेदात् । निरवयवब्रह्मणो मुख्यांशो न सम्भवतीति वदता सिद्धान्तिना भेदो नास्तीत्युक्तं भवति, भेदाभावे चांशांशित्वाभावादनुज्ञादिभेदव्यवहारानुपपत्तिरित्याक्षेपाभिप्रायः ।

न वयं भेदस्यासत्त्वं नरशृङ्गवद्ब्रूमः, किन्तु मिथ्यात्वं वदामः । तथा च देहाद्युपाधिभेदेनांशजीवानामाब्रह्मबोधात्कल्पितभेदाद्भेदव्यवहारोपपत्तिरिति सूत्रेण समाधत्ते -

तामित्यादिना ॥४७॥