ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
वियदादिविषयः श्रुतिविप्रतिषेधस्तृतीयेन पादेन परिहृतःचतुर्थेन इदानीं प्राणविषयः परिह्रियतेतत्र तावत्तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इति, तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इति एवमादिषु उत्पत्तिप्रकरणेषु प्राणानामुत्पत्तिर्न आम्नायतेक्वचिच्चानुत्पत्तिरेव एषामाम्नायते, असद्वा इदमग्र आसीत्’ (तै. उ. २ । ७ । १)तदाहुः किं तदसदासीदित्यृषयो वाव तेऽग्रेऽसदासीत्तदाहुः के ते ऋषय इतिप्राणा वाव ऋषयः’ — इत्यत्र प्रागुत्पत्तेः प्राणानां सद्भावश्रवणात्अन्यत्र तु प्राणानामप्युत्पत्तिः पठ्यते — ‘यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाःइति, एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि ’ (मु. उ. २ । १ । ३) इति, सप्त प्राणाः प्रभवन्ति तस्मात्’ (मु. उ. २ । १ । ८) इति, प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नम्’ (प्र. उ. ६ । ४) इति एवमादिप्रदेशेषुतत्र श्रुतिविप्रतिषेधादन्यतरनिर्धारणकारणानिरूपणाच्च अप्रतिपत्तिः प्राप्नोतिअथवा प्रागुत्पत्तेः सद्भावश्रवणाद्गौणी प्राणानामुत्पत्तिश्रुतिरिति प्राप्नोतिअत उत्तरमिदम् पठति

पूर्वाधिकरणे कर्तुः स्वरूपं विचार्य तदुपकरणानामिन्द्रियाणामुत्पत्तिं साधयति -

तथा प्राणाः ।

भूतभोक्तृविचारानन्तरं भौतिकप्राणविचार इति हेतुहेतुमद्भावं पादयोः सङ्गतिमाह -

वियदादीति ।

तमेव विप्रतिषेधमाह -

तत्रेत्यादिना ।

यद्यपि प्राणानामनुत्पत्तौ एकविज्ञानप्रतिज्ञानुपपत्तेर्वियदधिकरणन्यायात्तेषामुत्पत्तिः सिध्यति तथापि प्रलये प्राणसद्भावश्रुतेर्गतिकथनार्थमेतदधिकरणमित्यपौनरुक्त्यम् । अत्र प्राणा विषयाः । ते किमुत्पद्यन्ते न वेति श्रुतीनां विप्रतिपत्त्या संशये तासां समबलत्वादनिर्णय इत्यप्रामाण्यमिति पूर्वपक्षफलम् , तत्र गौणवादी समाधानमाह -

अथवेति ।

प्राणानां प्रलये सद्भावश्रुतेर्निरवकाशत्वेन बलीयस्त्वादुत्पत्तिश्रुतिर्जीवोत्पत्तिश्रुतिवद्गौणीत्यविरोध इत्यर्थः । अप्रमाणपक्षवद्गौणपक्षोऽपि मुख्यसिद्धान्तिनः पूर्वपक्ष एवेति ज्ञापनार्थमथवेत्युक्तम् ।

मुख्यसिद्धान्त्याह -

अत इति ।