ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
तथा प्राणाः ॥ १ ॥
तथा प्राणा इतिकथं पुनरत्र तथा इत्यक्षरानुलोम्यम् , प्रकृतोपमानाभावात्सर्वगतात्मबहुत्ववादिदूषणम् अतीतानन्तरपादान्ते प्रकृतम्तत्तावन्नोपमानं सम्भवति, सादृश्याभावात्सादृश्ये हि सति उपमानं स्यात्यथा सिंहस्तथा बलवर्मेतिअदृष्टसाम्यप्रतिपादनार्थमिति यद्युच्येतयथा अदृष्टस्य सर्वात्मसन्निधावुत्पद्यमानस्यानियतत्वम् , एवं प्राणानामपि सर्वात्मनः प्रत्यनियतत्वमितितदपि देहानियमेनैवोक्तत्वात्पुनरुक्तं भवेत् जीवेन प्राणा उपमीयेरन् , सिद्धान्तविरोधात्जीवस्य हि अनुत्पत्तिराख्याता, प्राणानां तु उत्पत्तिराचिख्यासितातस्मात्तथा इत्यसम्बद्धमिव प्रतिभातिउदाहरणोपात्तेनाप्युपमानेन सम्बन्धोपपत्तेःअत्र प्राणोत्पत्तिवादिवाक्यजातमुदाहरणम्अस्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति’ (बृ. उ. २ । १ । २०) इत्येवंजातीयकम्तत्र यथा लोकादयः परस्माद्ब्रह्मण उत्पद्यन्ते, तथा प्राणा अपीत्यर्थःतथाएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी’ (मु. उ. २ । १ । ३) इत्येवमादिष्वपि खादिवत्प्राणानामुत्पत्तिरिति द्रष्टव्यम्अथवा पानव्यापच्च तद्वत्’ (जै. सू. ३ । ४ । १५) इत्येवमादिषु व्यवहितोपमानसम्बन्धस्याप्याश्रितत्वात्यथा अतीतानन्तरपादादावुक्ता वियदादयः परस्य ब्रह्मणो विकाराः समधिगताः, तथा प्राणा अपि परस्य ब्रह्मणो विकारा इति योजयितव्यम्कः पुनः प्राणानां विकारत्वे हेतुः ? श्रुतत्वमेवननु केषुचित्प्रदेशेषु प्राणानामुत्पत्तिः श्रूयत इत्युक्तम्तदयुक्तम् , प्रदेशान्तरेषु श्रवणात् हि क्वचिदश्रवणमन्यत्र श्रुतं निवारयितुमुत्सहतेतस्माच्छ्रुतत्वाविशेषादाकाशादिवत्प्राणा अप्युत्पद्यन्त इति सूक्तम् ॥ १ ॥

तथाशब्दमाक्षिपति -

कथमिति ।

आनुलोम्यमाञ्जस्यमित्यर्थः ।

साम्यं स्फुटयति -

यथादृष्टस्येति ।

दूषणवत्प्राणा इत्यनन्वितम् । यद्यप्यदृष्टवत्प्राणा अप्यनियता इति सूत्रमन्वेति तथापि पुनरुक्तम् । जीववत्प्राणा नोत्पद्यन्त इति सूत्रार्थश्चेदपसिद्धान्त इत्याक्षेपार्थः ।

समाधत्ते -

न । उदाहरणेति ।

दृष्टान्तो दार्ष्टान्तिकसन्निहितो वाच्य इत्यङ्गीकृत्यैकवाक्यस्थत्वेन सान्निध्यमुक्तम् । सम्प्रति नायं नियमः ।

जैमिनिना भगवता व्यवहितदृष्टान्तस्याश्रितत्वादित्याह -

अथवेति ।

अस्ति तृतीयाध्यायेऽश्वप्रतिग्रहेष्ट्यधिकरणम् , तस्येदं विषयवाक्यम् , 'यावतोऽश्वान्प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कपालान्निर्वपेत्' इत्येतदुत्तराधिकरणे किमियं वारुणीष्टिर्दातुरुत प्रतिग्रहीतुरिति विशये 'प्रतिगृह्णीयात्' इति श्रुतेः प्रतिग्रहीतुरित्याशङ्क्य 'प्रजापतिर्वरुणायाश्वमनयत्' इत्युपक्रमे दातृकीर्तनाल्लिङ्गादश्वदातुरेवेति स्थास्यति, अतः प्रतिगृह्णीयादित्यस्य पदस्याश्वान् यः प्रतिग्राहयेदित्यर्थः दद्यादिति यावत् । 'योऽश्वदाता स वारुणीमिष्टिं कुर्यात्' इति वाक्यार्थे स्थिते चिन्ता - अश्वदाननिमित्तेयमिष्टिः किं लौकिकेऽश्वदाने वैदिके वेति । तत्र 'न केसरिणो ददाति ' इति निषिद्धलौकिकाश्वदाने दोषसम्भवात्तन्निरासार्थेयमिष्टिरिति दोषात्त्विष्टिर्लौकिके स्यादिति सूत्रेण प्राप्ते सिद्धान्तः 'अत्र हि वरुणो वा एतं गृह्णाति योऽश्वं प्रतिगृह्णाति' इति दातुर्दोषं सङ्कीर्त्येष्टिर्विहिता । वरुणशब्दो जलोदराख्यरोगे रूढः । न च लौकिकेऽश्वदानेऽयं रोगो भवति इति प्रसिद्धम् । न चानेनैव वाक्येन प्रसिद्धिः । दाने दोषस्तन्निरासार्था चेष्टिरितिवदतोऽर्थभेदे वाक्यभेदात् । न च वृणोतीति व्युत्पत्त्या वरुणशब्दो निषेधातिक्रमकृतदोषानुवादक इति युक्तम् , रूढित्यागापातात् ।

तत्त्यागे च वैदिकेऽपि दानेऽश्वत्यागजन्यदुःखं प्राप्तमुक्तव्युत्पत्त्या शक्नोत्यनुवदितुम् , तस्मात्प्राप्तानुवाद्यर्थवादोऽयमिति यज्ञसम्बन्धिन्यश्वदाने इयमिष्टिरित्येवं विचार्योक्तम् -

पानव्यापच्च तद्वदिति ।

सोमपाने क्रियमाणे व्यापद्वमनं यदि स्यात्तदा 'एतं सौमेन्द्रं श्यामाकं चरुं निर्वपेत्' इति श्रूयते । तत्राश्वप्रतिग्रहेष्ट्यधिकरणपूर्वपक्षन्यायो बहुसूत्रव्यवहितस्तद्वदिति परामृश्यते, तद्वल्लौकिके धातुसाम्यार्थं पीतसोमस्य वमनेऽयं चरुः स्याद्वमननिमित्तेन्द्रियशोषाख्यदोषस्य दृष्टस्य' इन्द्रियेण वीर्येण व्यृध्यते यः सोमं वमति' इत्यनुवादादिति पूर्वपक्षसूत्रार्थः । वैदिके तु सोमपाने शेषप्रतिपत्तेर्जातत्वाद्वमनेऽपि न दोष इति सिद्धान्तः । लोके वमनकृतेन्द्रियशोषस्य धातुसाम्यकरत्वेन गुणत्वान्न दोषता । वेदे तु 'मा मे वाङ्नाभिमतिगाः' इति सम्यग्जरणार्थमन्त्रलिङ्गाद्वमने कर्मवैगुण्यात्तस्य दोषता । तस्माद्वैदिकसोमवमने सौमेन्द्रश्चरुरिति स्थितमित्येवमादिषु सूत्रेष्वित्यर्थः ॥१॥