ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
गौण्यसम्भवात् ॥ २ ॥
यत्पुनरुक्तं प्रागुत्पत्तेः सद्भावश्रवणाद्गौणी प्राणानामुत्पत्तिश्रुतिरिति, तत्प्रत्याहगौण्यसम्भवादितिगौण्या असम्भवो गौण्यसम्भवः हि प्राणानामुत्पत्तिश्रुतिर्गौणी सम्भवति, प्रतिज्ञाहानिप्रसङ्गात्कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ (मु. उ. १ । १ । ३) इति हि एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय तत्साधनायेदमाम्नायते एतस्माज्जायते प्राणः’ (मु. उ. २ । १ । ३) इत्यादिसा प्रतिज्ञा प्राणादेः समस्तस्य जगतो ब्रह्मविकारत्वे सति प्रकृतिव्यतिरेकेण विकाराभावात्सिध्यतिगौण्यां तु प्राणानामुत्पत्तिश्रुतौ प्रतिज्ञा इयं हीयेततथा प्रतिज्ञातार्थमुपसंहरतिपुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम्’ (मु. उ. २ । १ । १०) इति, ब्रह्मैवेदं विश्वमिदं वरिष्ठम्’ (मु. उ. २ । २ । १२) इति तथाआत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदꣳ सर्वं विदितम्इत्येवंजातीयकासु श्रुतिषु एषैव प्रतिज्ञा योजयितव्याकथं पुनः प्रागुत्पत्तेः प्राणानां सद्भावश्रवणम् ? नैतन्मूलप्रकृतिविषयम् , अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः’ (मु. उ. २ । १ । २) इति मूलप्रकृतेः प्राणादिसमस्तविशेषरहितत्वावधारणात्अवान्तरप्रकृतिविषयं त्वेतत् स्वविकारापेक्षं प्रागुत्पत्तेः प्राणानां सद्भावावधारणमिति द्रष्टव्यम् , व्याकृतविषयाणामपि भूयसीनामवस्थानां श्रुतिस्मृत्योः प्रकृतिविकारभावप्रसिद्धेःवियदधिकरणे हिगौण्यसम्भवात्इति पूर्वपक्षसूत्रत्वात्गौणी जन्मश्रुतिः, असम्भवात्इति व्याख्यातम्प्रतिज्ञाहान्या तत्र सिद्धान्तोऽभिहितःइह तु सिद्धान्तसूत्रत्वात्गौण्या जन्मश्रुतेरसम्भवात्इति व्याख्यातम्तदनुरोधेन तु इहापिगौणी जन्मश्रुतिः, असम्भवात्इति व्याचक्षाणैः प्रतिज्ञाहानिरुपेक्षिता स्यात् ॥ २ ॥

ननु प्रतिज्ञापि गौणी कं न स्यादित्यत आह -

तथा च प्रतिज्ञातार्थमिति ।

उपक्रमोपसंहाराभ्यां प्रतिपिपादयिषिताद्वितीयत्वप्रतिज्ञानुरोधेन प्राणोत्पत्तिर्मुख्यैवेति भावः ।

मुण्डकवच्छ्रुत्यन्तरेऽपि प्रतिज्ञादर्शनात्सा मुख्येत्याह -

तथेति ।

एषा प्रतिज्ञा प्राणोत्पत्तिमुख्यत्वे हेतुत्वेन द्रष्टव्येत्यर्थः ।

इदानीं प्रलये प्राणसत्वश्रुतेर्गतिं प्रश्नपूर्वकमाह -

कथमित्यादिना ।

नेदं वाक्यं महाप्रलये परमकारणस्य ब्रह्मणः प्राणवत्त्वपरं किन्त्ववान्तरप्रलये हिरण्यगर्भाख्यावान्तरप्रकृतिरूपप्राणसद्भावपरमित्यर्थः ।

ननु हिरण्यगर्भरूपविकारस्य सत्त्वे कथं तदा विकारासत्त्वकथनम् , तत्राह -

स्वविकारेति ।

स्वस्य कार्यब्रह्मणो यत्कार्यं स्थूलं तस्योत्पत्तिरित्यर्थः । ननु यथाश्रुति महाप्रलये प्राणसद्भावरूपं लिङ्गं प्राणानुत्पत्तिसाधकं किमित्यवान्तरप्रलयपरतया नीयत इति चेत् 'एतस्माज्जायते प्राणः' इत्यादि प्रबलजन्मश्रुतिबलादिति वदामः ।

ननु विकारस्य ब्रह्मणः कथं प्रकृतित्वमित्यत आह -

व्याकृतेति ।

'हिरण्यगर्भः समवर्तताग्रे' इत्यादिश्रुतौ 'आदिकर्ता स भूतानां' इत्यादि स्मृतौ च विकारात्मनामपि मूलकारणावस्थारूपाणां ब्रह्मविराडादीनां प्रकृतिविकारभावेन प्रसिद्धिरस्ति । पूर्वापेक्षया विकारस्याप्युत्तरापेक्षया प्रकृतित्वमित्यर्थः ।

केचिद्वियदधिकरणानुरोधेनेदं सूत्रं व्याचक्षते तान्दूषयति -

वियदिति ॥२॥