एवं जन्मलब्धसत्ताकानां प्राणानामुपजीव्योपजीवकत्वसङ्गत्या सङ्ख्यां निर्णेतुं श्रुतीनां विरोधात्संशये पूर्वपक्षयति -
सप्तगतेर्विशेषितत्वाच्च ।
विशयः संशयः । इन्द्रियाण्यत्र विषयः । पञ्च धीन्द्रियाणि वाङ्मनश्चेति सप्त प्राणा एत एव हस्तेन सहाष्टौ । ग्रहत्वं बन्धकत्वम् । गृह्णन्ति बध्नन्तीति ग्रहा इन्द्रियाणि तेषां बन्धकत्वं विषयाधीनमित्यतिग्रहाः ग्रहानतिक्रान्ता विषया इत्यर्थः । द्वे श्रोत्रे द्वे चक्षुषि द्वे घ्राणे वाक्चेति सप्त शीर्ष्णि भवाः प्राणा द्वाववाञ्चौ पायूपस्थौ चेति नव, ज्ञानकर्मेन्द्रियाणि दशेमे पुरुषे देहे प्राणाः आत्मा मन एकादश प्राणा इति सिद्धान्तकोटिरुक्ता । एत एव हृदयाख्यया बुद्ध्या सहद्वादश । अहङ्कारेण सह त्रयोदश । श्रुतितः सप्तत्वावगतेर्ये शीर्षण्याः सप्त ते प्राणा इति शीर्षण्योद्देशेन प्राणत्वविशेषणाद्वा शीर्षण्यानां प्राणत्वशब्दिता, इन्द्रियत्वपरिसङ्ख्यया सप्तैव प्राणा इति सूत्रयोजना ।
सप्तत्वं वीप्साविरुद्धमिति शङ्कते -
नन्विति ।
गुहायां हृदये शेरत इति गुहाशयाः । स्वस्थानेषु निहिता निक्षिप्ता इत्यर्थः । चित्तेन चतुर्दशत्वं मन्तव्यम् ।
पूर्वपक्षी परिहरति -
नैष दोष इति ॥५॥