सिद्धान्तिनाप्येकादशसु मनोवृत्तिभेदान्निश्चयात्मिका बुद्धिः, गर्वात्मकोऽहङ्कारः, स्मरणात्मकं चित्तमिति द्वादशादिसङ्ख्यान्तर्भावनीया । ततो वरं प्राथमिकसप्तत्वेऽन्तर्भावः लाघवादिति प्राप्ते सिद्धान्तयति -
अत्रेति ।
आदानेन कर्मणा गृहीतः सम्बद्धः ।