ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
हस्तादयस्तु स्थितेऽतो नैवम् ॥ ६ ॥
हस्तादयस्त्वपरे सप्तभ्योऽतिरिक्ताः प्राणाः श्रूयन्तेहस्तौ वै ग्रहः कर्मणातिग्राहेण गृहीतो हस्ताभ्यां हि कर्म करोति’ (बृ. उ. ३ । २ । ८) इत्येवमाद्यासु श्रुतिषुस्थिते सप्तत्वातिरेके सप्तत्वमन्तर्भावाच्छक्यते सम्भावयितुम्हीनाधिकसंख्याविप्रतिपत्तौ हि अधिका संख्या सङ्ग्राह्या भवतितस्यां हीना अन्तर्भवति, तु हीनायामधिकाअतश्च नैवं मन्तव्यम्स्तोककल्पनानुरोधात्सप्तैव प्राणाः स्युरितिउत्तरसंख्यानुरोधात्तु एकादशैव ते प्राणाः स्युःतथा उदाहृता श्रुतिःदशेमे पुरुषे प्राणा आत्मैकादशः’ (बृ. उ. ३ । ९ । ४) इति; आत्मशब्देन अत्र अन्तःकरणं परिगृह्यते, करणाधिकारात्नन्वेकादशत्वादप्यधिके द्वादशत्रयोदशत्वे उदाहृतेसत्यमुदाहृते त्वेकादशभ्यः कार्यजातेभ्योऽधिकं कार्यजातमस्ति, यदर्थमधिकं करणं कल्प्येतशब्दस्पर्शरूपरसगन्धविषयाः पञ्च बुद्धिभेदाः, तदर्थानि पञ्च बुद्धीन्द्रियाणिवचनादानविहरणोत्सर्गानन्दाः पञ्च कर्मभेदाः, तदर्थानि पञ्च कर्मेन्द्रियाणिसर्वार्थविषयं त्रैकाल्यवृत्ति मनस्तु एकम् अनेकवृत्तिकम्तदेव वृत्तिभेदात् क्वचिद्भिन्नवद्व्यपदिश्यते — ‘मनो बुद्धिरहंकारश्चित्तं इतितथा श्रुतिः कामाद्या नानाविधा वृत्तीरनुक्रम्याहएतत्सर्वं मन एव’ (बृ. उ. १ । ५ । ३) इतिअपि प्तैव शीर्षण्यान्प्राणानभिमन्यमानस्य चत्वार एव प्राणा अभिमताः स्युःस्थानभेदाद्ध्येते चत्वारः सन्तः सप्त गण्यन्ते — ‘द्वे श्रोत्रे द्वे चक्षुषी द्वे नासिके एका वाक्इति तावतामेव वृत्तिभेदा इतरे प्राणा इति शक्यते वक्तुम् , हस्तादिवृत्तीनामत्यन्तविजातीयत्वात्तथानव वै पुरुषे प्राणा नाभिर्दशमीइत्यत्रापि देहच्छिद्रभेदाभिप्रायेणैव दश प्राणा उच्यन्ते, प्राणतत्त्वभेदाभिप्रायेण, ‘नाभिर्दशमीइति वचनात् हि नाभिर्नाम कश्चित्प्राणः प्रसिद्धोऽस्तिमुख्यस्य तु प्राणस्य भवति नाभिरप्येकं विशेषायतनमितिअतोनाभिर्दशमीइत्युच्यतेक्वचिदुपासनार्थं कतिचित्प्राणा गण्यन्ते, क्वचित्प्रदर्शनार्थम्तदेवं विचित्रे प्राणेयत्ताम्नाने सति, क्व किंपरम् आम्नानमिति विवेक्तव्यम्कार्यजातवशात्त्वेकादशत्वाम्नानं प्राणविषयं प्रमाणमिति स्थितम्

सम्बन्धमेवाह -

हस्ताभ्यामिति ।

अतोऽधिकसङ्ख्याया न्यूनायामन्तर्भावायोगात्सप्तैव प्राणाः स्युर्लाघवानुरोधादित्येवं न मन्तव्यमित्यन्वयः ।

तर्हि कतीन्द्रियाणीत्याकाङ्क्षयामाह -

उत्तरेति ।

'श्रुतीनां मिथो विरोधे सति मानान्तरानुगृहीता श्रुतिर्बलीयसी' इति न्यायेन कार्यलिङ्गानुमानानुगृहीतैकादशप्राणश्रुत्यनुसारेणान्याः श्रुतयो नेया इत्यभिसन्धायाह -

सत्यमिति ।

एकादशकार्यलिङ्गान्याह -

शब्देति ।

त्रयः कालास्त्रैकाल्यं तद्विषया वृत्तिर्यस्य तत्रैकाल्यवृत्ति । इन्द्रियान्तराणां वर्तमानमात्राग्राहित्वादतीतादिज्ञानाय मनोऽङ्गीकार्यमित्यर्थः ।

विशेषितत्वादित्युक्तं निरस्यति -

अपि च सप्तेति ।

न च तावतामिति ।

आदानादीनां श्रोत्रादिभ्योऽत्यन्तवैजात्यादित्यर्थः । तेषां तद्वृत्तित्वे बधिरादीनामादानादि न स्यादिति भावः ।

कथं तर्हि छिद्रे प्राणशब्द इत्याशङ्क्य लक्षणयेत्याह -

मुख्यस्य त्विति ।

'सप्त प्राणाः प्रभवन्ति' इत्युपासनार्थम् । 'अष्टौ ग्रहा' इति श्रुतिस्तूपलक्षणार्था । पायूपस्थपादानामपि बन्धकत्वाविशेषादिति विवेक्तव्यम् ।