नन्विदं सूत्रव्याख्यानमसङ्गतं पञ्चधीन्द्रियवाङ्मनसां सप्तत्वावगतिः शीर्षण्यानां चतुर्णां विशेषितत्वमिति हेतोर्वैयधिकरण्यादुक्तपरिसङ्ख्यादोषाच्चेत्यरुचेराह -
इयमपरेति ।
इन्द्रियाणि कतीति सन्देहे पूर्वपक्षसूत्रं योजयति -
सप्तेति ।
तं जीवात्मानं ये प्राणाः सह गच्छन्ति तेषामेव भोगहेतुत्वादिन्द्रियत्वमित्यर्थः । विपन्नावस्थायामेष चाक्षुषश्चक्षुषि स्थितोऽनुग्राहकसूर्यांशरूपः पुरुषः पराङ्पर्यावर्तते बहिर्देशात्स्वांशिनं सुर्यं प्रतिगच्छति । अथ तदानीमयं मुमूर्षुररूपज्ञो भवति । देवांशे देवं प्रविष्टे लिङ्गांशश्चक्षुर्हृदये मनसैकीभवति तदायं न पश्यतीति पार्श्वस्था आहुरित्यर्थः । आदिपदात् 'न जिघ्रति न वदति न रमयते न शृणोति न मनुते न स्पृशति न विजानाति' इति गृह्यते ।
सप्तानामेव जीवेन सह गतिरित्यसिद्धम् , ग्रहत्वश्रुत्या हस्तादीनामपि गतिप्रतीतेरिति सिद्धान्तयति -
एवमित्यादिना ।
हस्तादिबन्धस्य प्राङ्मोक्षात्सहगतौ स्मृतिमाह -
पुर्यष्टकेनेति ।
प्राणादिपञ्चकं भूतसूक्ष्मपञ्चकं ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकमन्तःकरणचतुष्टयमविद्या कामः कर्म चेति पुर्यष्टकमात्मनो ज्ञापकत्वाल्लिङ्गं सति सम्भवे सर्वश्रुतिसङ्कोचो न युक्त इत्याह -
सर्वशब्दोऽपीति ।
तस्मात्सङ्ख्याश्रुतीनामविरोधादेकादशेन्द्रियकारणे ब्रह्मणि समन्वय इति सिद्धम् ॥६॥