इन्द्रियाणि विचार्य तद्व्यापारात्प्राणं पृथक्कर्तुमुत्पत्तिरतिदिष्टा । सम्प्रत्युत्पन्नप्राणस्वरूपं पृथक्करोति -
न वायुक्रिये पृथगुपदेशात् ।
मुख्यः प्राणः किं वायुमात्रमुत करणानां साधारणव्यापार आहोस्वित्तत्त्वान्तरमिति वायुप्राणयोर्भेदाभेदश्रुतीनां मिथोविरोधात्संशये पूर्वपक्षमाह -
तत्रेति ।
द्वितीयं साङ्ख्यपूर्वपक्षमाह -
अथवेति ।