सिद्धान्तत्वेन सूत्रमादत्ते -
अत्रोच्यत इति ।
मनोरूपब्रह्मणो वाक्प्राणचक्षुःश्रोत्रैश्चतुष्पात्त्वं श्रुतावुक्तम् , तत्र प्राणो वायुनाधिदैविकेन भात्यभिव्यञ्ज्यते अभिव्यक्तः संस्तपति । कार्यक्षमो भवतीत्यर्थः ।
श्रुतिषु तत्र तत्र प्राणस्य वागादीनां च मिथः संवादलिङ्गेन पृथगुत्पत्तिलिङ्गेन चेन्द्रियतदभिन्नव्यापारेभ्योऽपि भिन्नत्वमित्याह -
तथेति ।
प्राणस्येन्द्रियवृत्तित्वं श्रुत्या निरस्य युक्त्यापि निरस्यति -
न च समस्तानामिति ।
या चक्षुःसाध्या वृत्तिः सैव न श्रोत्रादिसाध्या, करणानां प्रत्येकमेकैकरूपग्रहादिवृत्तावैव हेतुत्वात् । न च समुदायस्य वृत्तिः सम्भवति तस्यासत्त्वादित्यर्थः ।
प्राणाभावादिति ।
श्रोत्रादीनामेकप्राणनाख्यवृत्त्यनुकूलपरिस्पन्देषु मानाभावात् , श्रवणादीनामपरिस्पन्दत्वेन विजातीयानाम् , परिस्पन्दरूपप्राणनाननुकूलत्वादवान्तरव्यापाराभावान्न समस्तकरणवृत्तिः प्राण इत्यर्थः ।
किञ्च प्राणस्य वृत्तित्वे वागादीनामेव प्राधान्यं वाच्यम् , नैतदस्तीत्याह -
तथा प्राणस्येति ।
यथा मृदो घटो न वस्त्वन्तरं नापि मृण्मात्रं तद्विकारत्वात् , तथा वायोर्विकारः प्राण इत्यभेदश्रुतेर्गतिमाह -
उच्यत इति ।
देहं प्राप्तः पञ्चावस्थो विकारात्मना स्थितो वायुरेव प्राण इत्यर्थः ॥९॥