अकरणत्वाच्च न दोषस्तथाहि दर्शयति ॥ ११ ॥
न तावद्विषयान्तरप्रसङ्गो दोषः, अकरणत्वात्प्राणस्य । न हि चक्षुरादिवत् प्राणस्य विषयपरिच्छेदेन करणत्वमभ्युपगम्यते । न च अस्य एतावता कार्याभाव एव । कस्मात् ? तथा हि श्रुतिः प्राणान्तरेष्वसम्भाव्यमानं मुख्यप्राणस्य वैशेषिकं कार्यं दर्शयति प्राणसंवादादिषु — ‘अथ ह प्राणा अहꣳ श्रेयसि व्यूदिरे’ (छा. उ. ५ । १ । ६) इत्युपक्रम्य, ‘यस्मिन्व उत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्येत स वः श्रेष्ठः’ (छा. उ. ५ । १ । ७) इति च उपन्यस्य, प्रत्येकं वागाद्युत्क्रमणेन तद्वृत्तिमात्रहीनं यथापूर्वं जीवनं दर्शयित्वा, प्राणोच्चिक्रमिषायां वागादिशैथिल्यापत्तिं शरीरपातप्रसङ्गं च दर्शयन्ती श्रुतिः प्राणनिमित्तां शरीरेन्द्रियस्थितिं दर्शयति; ‘तान्वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामि’ इति च एतमेवार्थं श्रुतिराह । ‘प्राणेन रक्षन्नवरं कुलायम्’ (बृ. उ. ४ । ३ । १२) इति च सुप्तेषु चक्षुरादिषु प्राणनिमित्तां शरीररक्षां दर्शयति; ‘यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति तदेव तच्छुष्यति’ (बृ. उ. १ । ३ । १९), इति ‘तेन यदश्नाति यत्पिबति तेनेतरान्प्राणानवति’ इति च प्राणनिमित्तां शरीरेन्द्रियपुष्टिं दर्शयति; ‘कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति । स प्राणमसृजत’ इति च प्राणनिमित्ते जीवस्योत्क्रान्तिप्रतिष्ठे दर्शयति ॥ ११ ॥