पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॥ १२ ॥
इतश्चास्ति मुख्यस्य प्राणस्य वैशेषिकं कार्यम् , यत्कारणं पञ्चवृत्तिरयं व्यपदिश्यते श्रुतिषु — ‘प्राणोऽपानो व्यान उदानः समानः’ (बृ. उ. १ । ५ । ३) इति । वृत्तिभेदश्चायं कार्यभेदापेक्षः — प्राणः प्राग्वृत्तिः उच्छ्वासादिकर्मा, अपानः अर्वाग्वृत्तिर्निश्वासादिकर्मा, व्यानः तयोः सन्धौ वर्तमानो वीर्यवत्कर्महेतुः, उदानः ऊर्ध्ववृत्तिरुत्क्रान्त्यादिहेतुः, समानः समं सर्वेष्वङ्गेषु योऽन्नरसान्नयति — इत्येवं पञ्चवृत्तिः प्राणः, मनोवत् — यथा मनसः पञ्च वृत्तयः, एवं प्राणस्यापीत्यर्थः । श्रोत्रादिनिमित्ताः शब्दादिविषया मनसः पञ्च वृत्तयः प्रसिद्धाः । न तु ‘कामः सङ्कल्पः’ इत्याद्याः परिपठिता गृह्येरन् , पञ्चसंख्यातिरेकात् । नन्वत्रापि श्रोत्रादिनिरपेक्षा भूतभविष्यदादिविषया अपरा मनसो वृत्तिरस्तीति समानः पञ्चसंख्यातिरेकः; एवं तर्हि ‘परमतमप्रतिषिद्धमनुमतं भवति’ इति न्यायात् इहापि योगशास्त्रप्रसिद्धा मनसः पञ्च वृत्तयः परिगृह्यन्ते — ‘प्रमाणविपर्ययविकल्पनिद्रास्मृतयः’ (पा. यो. सू. १ । १ । ६) नाम । बहुवृत्तित्वमात्रेण वा मनः प्राणस्य निदर्शनमिति द्रष्टव्यम् । जीवोपकरणत्वमपि प्राणस्य पञ्चवृत्तित्वात् , मनोवत् — इति वा योजयितव्यम् ॥ १२ ॥