ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॥ १२ ॥
इतश्चास्ति मुख्यस्य प्राणस्य वैशेषिकं कार्यम् , यत्कारणं पञ्चवृत्तिरयं व्यपदिश्यते श्रुतिषुप्राणोऽपानो व्यान उदानः समानः’ (बृ. उ. १ । ५ । ३) इतिवृत्तिभेदश्चायं कार्यभेदापेक्षःप्राणः प्राग्वृत्तिः उच्छ्वासादिकर्मा, अपानः अर्वाग्वृत्तिर्निश्वासादिकर्मा, व्यानः तयोः सन्धौ वर्तमानो वीर्यवत्कर्महेतुः, उदानः ऊर्ध्ववृत्तिरुत्क्रान्त्यादिहेतुः, समानः समं सर्वेष्वङ्गेषु योऽन्नरसान्नयतिइत्येवं पञ्चवृत्तिः प्राणः, मनोवत्यथा मनसः पञ्च वृत्तयः, एवं प्राणस्यापीत्यर्थःश्रोत्रादिनिमित्ताः शब्दादिविषया मनसः पञ्च वृत्तयः प्रसिद्धाः तुकामः सङ्कल्पःइत्याद्याः परिपठिता गृह्येरन् , पञ्चसंख्यातिरेकात्नन्वत्रापि श्रोत्रादिनिरपेक्षा भूतभविष्यदादिविषया अपरा मनसो वृत्तिरस्तीति समानः पञ्चसंख्यातिरेकः; एवं तर्हिपरमतमप्रतिषिद्धमनुमतं भवतिइति न्यायात् इहापि योगशास्त्रप्रसिद्धा मनसः पञ्च वृत्तयः परिगृह्यन्तेप्रमाणविपर्ययविकल्पनिद्रास्मृतयः’ (पा. यो. सू. १ । १ । ६) नामबहुवृत्तित्वमात्रेण वा मनः प्राणस्य निदर्शनमिति द्रष्टव्यम्जीवोपकरणत्वमपि प्राणस्य पञ्चवृत्तित्वात् , मनोवत्इति वा योजयितव्यम् ॥ १२ ॥

तत्रैव हेत्वन्तरार्थं सूत्रं व्याचष्टे -

इतश्चेत्यादिना ।

वृत्तिरवस्था । अग्निमन्थनादिकं वीर्यवत्कर्म ।

कामादिवृत्तिवज्ज्ञानेऽपि पञ्चत्वनियमो नास्तीत्यरुचिं स्वयमेवोद्भाव्य पक्षान्तरं गृह्णाति -

नन्वत्रापीत्यादिना ।

प्रमाणं प्रमितिः विपर्ययो भ्रमः । शशविषाणादिज्ञानं विकल्पः । तामसी वृत्तिर्निद्रा । स्मृतिः प्रसिद्धा ।

भ्रमनिद्रयोरविद्यावृत्तित्वान्न मनोवृत्तित्वमित्यरुच्या स्वमतमाह -

बह्विति ।

सूत्रस्यार्थान्तरमाह -

जीवेति ।

तदेवं प्राणवायोर्भेदाभेदश्रुत्योरविरोध इति सिद्धम् ॥१२॥