ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
अणुश्च ॥ १३ ॥
अणुश्चायं मुख्यः प्राणः प्रत्येतव्यः, इतरप्राणवत्अणुत्वं इहापि सौक्ष्म्यपरिच्छेदौ, परमाणुतुल्यत्वम् , पञ्चभिर्वृत्तिभिः कृत्स्नशरीरव्यापित्वात्सूक्ष्मः प्राणः, उत्क्रान्तौ पार्श्वस्थेन अनुपलभ्यमानत्वात्; परिच्छिन्नश्च, उत्क्रान्तिगत्यागतिश्रुतिभ्यःननु विभुत्वमपि प्राणस्य समाम्नायतेसमः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण’ (बृ. उ. १ । ३ । २२) इत्येवमादिषु प्रदेशेषुतदुच्यतेआधिदैविकेन समष्टिव्यष्टिरूपेण हैरण्यगर्भेन प्राणात्मनैव एतद्विभुत्वमाम्नायते, आध्यात्मिकेनअपि समः प्लुषिणाइत्यादिना साम्यवचनेन प्रतिप्राणिवर्तिनः प्राणस्य परिच्छेद एव प्रदर्श्यतेतस्माददोषः ॥ १३ ॥

एवं मुख्यप्राणस्योत्पत्तिं स्वरूपं चोक्त्वा परिमाणसन्देहेऽणुत्वमुपदिशति -

अणुश्चेति ।

अधिकाशङ्कामाह -

ननु विभुत्वमपीति ।

प्लुषिर्मशकादपि सूक्ष्मो जन्तुः पुत्तिकेत्युच्यते । नागो हस्ती ।

प्राण उत्क्रामतीति श्रुत्याल्पत्वं प्राणस्य भाति, समोऽनेन सर्वेणेति, श्रुत्या विभुत्वमिति विरोधे आध्यात्मिकप्राणस्याल्पत्वमाधिदैविकस्य विभुत्वमिति विषयभेदाच्छ्रुत्योरविरोध इति समाधत्ते -

तदुच्यत इति ।

किञ्चोपक्रमे प्राणस्य प्लुष्यादिसमत्वेनाल्पत्वोक्तेः सम एभिस्त्रिभिर्लोकैरिति विराड्देहसाम्यम् ।

समोऽनेनेति सूत्रात्मत्वमिति विषयव्यवस्था सुस्थेत्याह -

अपि चेति ।

अणवश्चेत्यत्र सर्वेऽनन्ता इति इन्द्रियानन्त्यमुपासनार्थमिति समाहितम् , अत्र तु प्राणविभुत्वमाधिदैविकमिति समाधानान्तरोक्तेरपौनरुक्त्यम् । अन्ये तु प्रसङ्गात्तत्र साङ्ख्याक्षेपो निरस्तः, अत्र तु श्रुतिविरोधो निरस्त इत्यपौनरुक्त्यमाहुः ॥१३॥