ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
ज्योतिराद्यधिष्ठानं तु तदामननात् ॥ १४ ॥
ते पुनः प्रकृताः प्राणाः किं स्वमहिम्नैव स्वस्मै स्वस्मै कार्याय प्रभवन्ति, आहोस्विद्देवताधिष्ठिताः प्रभवन्ति इति विचार्यतेतत्र प्राप्तं तावत्यथास्वं कार्यशक्तियोगात् स्वमहिम्नैव प्राणाः प्रवर्तेरन्नितिअपि देवताधिष्ठितानां प्राणानां प्रवृत्तावभ्युपगम्यमानायां तासामेवाधिष्ठात्रीणां देवतानां भोक्तृत्वप्रसङ्गात् शारीरस्य भोक्तृत्वं प्रलीयेतअतः स्वमहिम्नैव एषां प्रवृत्तिरितिएवं प्राप्ते, इदमुच्यतेज्योतिराद्यधिष्ठानं तुइतितुशब्देन पूर्वपक्षो व्यावर्त्यतेज्योतिरादिभिरग्न्याद्यभिमानिनीभिर्देवताभिरधिष्ठितं वागादिकरणजातं स्वकार्येषु प्रवर्तत इति प्रतिजानीतेहेतुं व्याचष्टेतदामननादितितथा हि आमनन्तिअग्निर्वाग्भूत्वा मुखं प्राविशत्’ (ऐ. उ. १ । २ । ४) इत्यादिअग्नेश्चायं वाग्भावो मुखप्रवेशश्च देवतात्मना अधिष्ठातृत्वमङ्गीकृत्य उच्यते हि देवतासम्बन्धं प्रत्याख्याय अग्नेः वाचि मुखे वा कश्चिद्विशेषसम्बन्धो दृश्यतेतथा वायुः प्राणो भूत्वा नासिके प्राविशत्’ (ऐ. उ. १ । २ । ४) इत्येवमाद्यपि योजयितव्यम्तथा अन्यत्रापि वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा भाति तपति ’ (छा. उ. ३ । १८ । ३) इत्येवमादिना वागादीनां अग्न्यादिज्योतिष्ट्वादिवचनेन एतमेवार्थं द्रढयति वै वाचमेव प्रथमामत्यवहत्सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत्’ (बृ. उ. १ । ३ । १२) इति एवमादिना वागादीनामग्न्यादिभावापत्तिवचनेन एतमेवार्थं द्योतयतिसर्वत्र अध्यात्माधिदैवतविभागेन वागाद्यग्न्याद्यनुक्रमणम् अनयैव प्रत्यासत्त्या भवतिस्मृतावपि — ‘वागध्यात्ममिति प्राहुर्ब्राह्मणास्तत्त्वदर्शिनःवक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवतम्इत्यादिना वागादीनामग्न्यादिदेवताधिष्ठितत्वं सप्रपञ्चं प्रदर्शितम्यदुक्तम्स्वकार्यशक्तियोगात्स्वमहिम्नैव प्राणाः प्रवर्तेरन्निति, तदयुक्तम् , शक्तानामपि शकटादीनामनडुदाद्यधिष्ठितानां प्रवृत्तिदर्शनात्उभयथोपपत्तौ आगमात् वागादीनां देवताधिष्ठितत्वमेव निश्चीयते ॥ १४ ॥

पूर्वं प्राणस्याध्यात्मिकाधिदैविकविभागेनाप्यणुत्वविभुत्वव्यवस्थोक्ता तत्प्रसङ्गेनाध्यात्मिकानां प्राणानामाधिदैविकाधीनत्वमाह -

ज्योतिराद्यधिष्ठानं तु तदामननात् ।

'वाचा हि नामान्यभिवदति चक्षुषा रूपाणि पश्यति' इति तृतीयाश्रुत्यान्वयव्यतिरेकवत्या वागादीनां निरपेक्षसाधनत्वोक्तिविरोधात् 'अग्निर्वाग्भूत्वा' इत्यादिश्रुतिस्तेषामचेतनाग्न्याद्युपादानकत्वपरा न तु तेषामधिष्ठातृदेवतापरा । न च स्वकार्ये शक्तानामपि वागादीनामचेतनत्वादधिष्ठात्रपेक्षा न विरुध्यत इति वाच्यम् , जीवस्याधिष्ठातृत्वात् । किञ्च देवतानामधिष्ठातृत्वे जीववद्भोक्तृत्वमस्मिन् देहे स्यात् , तथा चैकत्रानेकभोक्तृणां विरोधाद्दुर्बलस्य जीवस्य भोक्तृत्वं न स्यादिति पूर्वपक्षार्थः ।

सिद्धान्तयति -

एवं प्राप्त इत्यादिना ।

अग्निर्वाग्भूत्वादित्यश्चक्षुर्भूत्वेति च तद्भावोऽत्राग्न्यादिदेवताधिष्ठेयत्वरूप एव सम्बन्धो न तदुपादानकत्वरूपो दूरस्थादित्यमण्डलादेर्मुखस्थचक्षुराद्युपादानत्वासम्भवादित्याह -

अग्नेश्चायमिति ।

वायुः प्राणाधिष्ठाता भूत्वा नासापुटे प्राविशदिति व्याख्येयमित्याह -

तथेति ।

भाति दीप्यते, तपति स्वकार्यं करोतीत्यर्थः ।

एतस्मिन्नधिष्ठात्रधिष्ठेयत्वरूपार्थे लिङ्गान्तरमाह -

स वै वाचमिति ।

स प्राणो वाचं प्रथमामुद्गीथकर्मणि प्रधानामनृतादिपाप्मरूपं मृत्युमतीत्यावहन्मृत्युना मुक्तां कृत्वा अग्निदेवतात्मत्वं प्रापितवानित्यर्थः ।

किञ्च मृतस्याग्निं वागप्येति वातं प्राणः चक्षुरादित्यमित्यादिश्रुतिरप्यधिष्ठात्रधिष्ठेयत्वसम्बन्धं द्योतयतीत्याह -

सर्वत्रेति ।

ननु शकटादीनां बलीवर्दादिप्रेरितानां प्रवृत्तिर्दृष्टा, क्षीरादीनां त्वनधिष्ठितानामपि दध्यादिप्रवृत्तिर्दृश्यते, तथा चोभयथासम्भवे कथं निश्चयः, तत्राह -

उभयथोपपत्तौ चेति ।