ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
प्राणवता शब्दात् ॥ १५ ॥
सतीष्वपि प्राणानामधिष्ठात्रीषु देवतासु प्राणवता कार्यकरणसङ्घातस्वामिना शारीरेणैव एषां प्राणानां सम्बन्धः श्रुतेरवगम्यतेतथा हि श्रुतिःअथ यत्रैतदाकाशमनुविषण्णं चक्षुः चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति आत्मा गन्धाय घ्राणम्’ (छा. उ. ८ । १२ । ४) इत्येवंजातीयका शारीरेणैव प्राणानां सम्बन्धं श्रावयतिअपि अनेकत्वात्प्रतिकरणमधिष्ठात्रीणां देवतानां भोक्तृत्वम् अस्मिन् शरीरेऽवकल्पतेएको ह्ययमस्मिन् शरीरे शारीरो भोक्ता प्रतिसन्धानादिसम्भवादवगम्यते ॥ १५ ॥

शारीरेणैवेति ।

भोक्त्रेति शेषः । सम्बन्धो भोक्तृभोग्यभावः । अथ देहे प्राणप्रवेशानन्तरं यत्र गोलके एतच्छिद्रमनुप्रविष्टं चक्षुरिन्द्रियं तत्र चक्षुष्यभिमानी स आत्मा चाक्षुषः तस्य रूपदर्शनाय चक्षुः । यद्यप्यात्मा करणान्यपेक्षते तथापि ज्ञेयज्ञानतदाश्रयाहङ्कारान्यो वेद स आत्मा चिद्रूप एव, करणानि तु गन्धादिप्रवृत्तयेऽपेक्ष्यन्ते न चैतन्यायेति श्रुत्यर्थः ।

किञ्च योऽहं रूपमद्राक्षं स एवाहं शृणोमीति प्रतिसन्धानादेकः शारीर एव भोक्ता न बहवो देवा इत्याह -

अपि चेति ॥१५॥