ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
तस्य च नित्यत्वात् ॥ १६ ॥
तस्य शारीरस्यास्मिन् शरीरे भोक्तृत्वेन नित्यत्वम्पुण्यपापोपलेपसम्भवात् सुखदुःखोपभोगसम्भवाच्च, देवतानाम्ता हि परस्मिन्नैश्वरे पदेऽवतिष्ठमाना हीनेऽस्मिन् शरीरे भोक्तृत्वं प्रतिलब्धुमर्हन्तिश्रुतिश्च भवतिपुण्यमेवामुं गच्छति वै देवान्पापं गच्छति’ (बृ. उ. १ । ५ । २०) इतिशारीरेणैव नित्यः प्राणानां सम्बन्धः, उत्क्रान्त्यादिषु तदनुवृत्तिदर्शनात्तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति’ (बृ. उ. ४ । ४ । २) इत्यादिश्रुतिभ्यःतस्मात् सतीष्वपि करणानां नियन्त्रीषु देवतासु शारीरस्य भोक्तृत्वमपगच्छतिकरणपक्षस्यैव हि देवता, भोक्तृपक्षस्येति ॥ १६ ॥

कदाचिद्देवानामत्र भोक्तृत्वं कदाचिज्जीवस्येत्यनियमोऽस्त्वित्याशङ्क्य स्वकर्मार्जिते देहे जीवस्य भोक्तृत्वनियमान्मैवमित्याह - सूत्रकारः -

तस्य चेति ।

उत्क्रमाणादिषु जीवस्य प्राणाव्यभिचारात्तस्यैव प्राणस्वामित्वम् , देवतानां तु परस्वामिकरथसारथिवदधिष्ठातृत्वमात्रमिति व्याख्यान्तरमाह -

शारीरेणैव च नित्य इति ।

यथा प्रदीपादिः करणोपकारकतया करणपक्षस्यान्तर्गतस्तथा देवाः करणोपकारिण एव न भोक्तार इत्यर्थः । जीवस्यादृष्टद्वारा करणाधिष्ठातृत्वाद्रथस्वामिवद्भोक्तृत्वम् , देवानां तु करणोपकाराभिज्ञतया सारथिवदधिष्ठातृत्वमिति न जीवेनान्यथासिद्धिः । देवानामधिष्ठातृत्वेनास्मिन्देहे भोक्तृत्वानुमानं तु 'न ह वै देवान् पापं गच्छति' इत्युक्तश्रुतिबाधितम् । तस्मात् 'चक्षुषा हि रूपाणि पश्यति' इति श्रुतेः साधनत्वमात्रबोधित्वादग्निर्वाग्भूत्वेत्याद्यधिष्ठातृदेवतापेक्षाबोधकश्रुतिभिरविरोध इति सिद्धम् ॥१६॥