कदाचिद्देवानामत्र भोक्तृत्वं कदाचिज्जीवस्येत्यनियमोऽस्त्वित्याशङ्क्य स्वकर्मार्जिते देहे जीवस्य भोक्तृत्वनियमान्मैवमित्याह - सूत्रकारः -
तस्य चेति ।
उत्क्रमाणादिषु जीवस्य प्राणाव्यभिचारात्तस्यैव प्राणस्वामित्वम् , देवतानां तु परस्वामिकरथसारथिवदधिष्ठातृत्वमात्रमिति व्याख्यान्तरमाह -
शारीरेणैव च नित्य इति ।
यथा प्रदीपादिः करणोपकारकतया करणपक्षस्यान्तर्गतस्तथा देवाः करणोपकारिण एव न भोक्तार इत्यर्थः । जीवस्यादृष्टद्वारा करणाधिष्ठातृत्वाद्रथस्वामिवद्भोक्तृत्वम् , देवानां तु करणोपकाराभिज्ञतया सारथिवदधिष्ठातृत्वमिति न जीवेनान्यथासिद्धिः । देवानामधिष्ठातृत्वेनास्मिन्देहे भोक्तृत्वानुमानं तु 'न ह वै देवान् पापं गच्छति' इत्युक्तश्रुतिबाधितम् । तस्मात् 'चक्षुषा हि रूपाणि पश्यति' इति श्रुतेः साधनत्वमात्रबोधित्वादग्निर्वाग्भूत्वेत्याद्यधिष्ठातृदेवतापेक्षाबोधकश्रुतिभिरविरोध इति सिद्धम् ॥१६॥