सत्स्विन्द्रियेषु तदधिष्ठातृदेवताचिन्ता, तान्येव प्राणवृत्तिव्यतिरेकेण न सन्तीत्याक्षेपं प्रत्याह -
त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ।
प्राणादिन्द्रियाणां भेदाभेदश्रुतिभ्यां संशयं वदन् पूर्वपक्षयति -
मुख्यश्चेत्यादिना ।
हन्त इदानीमस्यैव मुख्यप्राणस्य सर्वे वयं स्वरूपं भवामेति सङ्कल्प्य ते वागादयस्तथाभवन्नित्यभेदश्रुत्यर्थः ।
ते प्राणादभिन्नाः, प्राणपदवाच्यत्वात् , प्राणवदित्याह -
प्राणेति ।
ते प्राणाः श्रेष्ठादन्यत्र अन्ये इति प्रतिज्ञार्थत्वेन पदत्रयं व्याचष्टे -
तत्त्वान्तराण्येवेति ।
तद्व्यपदेशादित्यत्र तच्चब्दः प्रतिज्ञातान्यत्वं परामृशति ।
प्राणा इन्द्रियाणीत्यपर्यायशब्दाभ्यामन्यत्वोक्तेरिति हेतूपपादनार्थत्वेन पुनस्तानि सूत्रपदानि योजयति -
क इत्यादिना ।
सूत्रस्य विश्वतोमुखत्वादुभयार्थत्वमलङ्कार एव न दूषणम् । एतेन प्रतिज्ञाध्याहारः तच्छब्दस्याप्रकृतभेदपरामर्शित्वं चेति दोषद्वयमपास्तम् ।
शब्दभेदाद्वस्तुभेदसाधनेऽतिप्रसङ्गं शङ्कते -
नन्विति ।
प्राणवन्मनसोऽपि इन्द्रियेभ्यो भेदः स्यादित्यर्थः ।
अपर्यायसंज्ञाभेदात्स्वतन्त्रसंज्ञिवस्तुभेद इत्युत्सर्गः । स च 'मनः षष्ठानीन्द्रियाणि' इत्यादिस्मृतिबाधान्मनस्यपोद्यते, प्राणे तु बाधकाभावादुत्सर्गसिद्धिरिति समाधत्ते -
सत्यमित्यादिना ।
मन इन्द्रियाणि चेति भेदोक्तिर्गोबलीवर्दन्यायेन नेया । सिद्धान्ते मनसः प्रमोपादानत्वादात्मवदनिन्द्रियत्वमिष्टं ततो नोत्सर्गबाध इति केचित् ।
किञ्च 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च' इति पृथग्जन्मव्यपदेशात्स्वतन्त्रवस्तुभेद इत्याह -
व्यपदेशभेदश्चायमिति ।
एकस्मिन् वाक्ये प्राण इन्द्रियशब्दमैक्याल्लभते पुनरुक्तिभयान्न लभते चेति व्याघात इत्यर्थः ॥१७॥