ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
मांसादि भौमं यथाशब्दमितरयोश्च ॥ २१ ॥
भूमेस्त्रिवृत्कृतायाः पुरुषेणोपभुज्यमानाया मांसादिकार्यं यथाशब्दं निष्पद्यतेतथा हि श्रुतिःअन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्माꣳसं योऽणिष्ठस्तन्मनः’ (छा. उ. ६ । ५ । १) इतित्रिवृत्कृता भूमिरेवैषा व्रीहियवाद्यन्नरूपेण अद्यत इत्यभिप्रायःतस्याश्च स्थविष्ठं रूपं पुरीषभावेन बहिर्निर्गच्छति; मध्यममध्यात्मं मांसं वर्धयति; अणिष्ठं तु मनःएवमितरयोरप्तेजसोर्यथाशब्दं कार्यमवगन्तव्यम्मूत्रं लोहितं प्राणश्च अपां कार्यम् , अस्थि मज्जा वाक् तेजसःइति ॥ २१ ॥

नन्वन्नमयं मांसादि कथं भौममित्यत आह -

त्रिवृत्कृता भूमिरेवेति ।

प्राणस्य वायोरप्कार्यत्वमौपचारिकं द्रष्टव्यम् ॥२१॥