ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
तासां तिसृणां देवतानाम् , बहिस्त्रिवृत्कृतानां सतीनाम् , अध्यात्ममपरं त्रिवृत्करणमुक्तम्इमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति’ (छा. उ. ६ । ४ । ७) इतितदिदानीम् आचार्यो यथाश्रुत्येवोपदर्शयति, आशङ्कितं कञ्चिद्दोषं परिहरिष्यन्

बाह्यं त्रिवृत्करणमुक्त्वाध्यात्मिकमपरं पूर्वोक्तविलक्षणं वदन्नुत्तरसूत्रमवतारयति -

तासामित्यादिना ।

पुरुषशरीरं प्राप्यैकैका त्रिवृद्भवति कार्यत्रयात्मना भवतीत्यर्थः । उत्तरसूत्रेणाशङ्कितं दोषं निरसितुमादौ शङ्काविषयमाध्यात्मिकत्रिवृत्करणं दर्शयतीति भाष्यार्थः ।