यं हि वैराग्यसंपन्नास्तत्त्वमर्थविवेकिनः ।
लभन्ते साधनैर्दान्तास्तं सीतानायकं भजे ॥१॥
तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् ।
वृत्तमनूद्य तृतीयाध्यायार्थमाह -
द्वितीय इत्यादिना ।
अविरुद्धे वेदान्तार्थे तज्ज्ञानसाधनचिन्तावसर इत्यनयोर्हेतुहेतुमद्भावः । लिङ्गोपाधिसिद्धौ तदुपहितजीवसंसारचिन्तेति पादयोरपि तद्भावसङ्गतिः । अत्र प्रथमपादे वैराग्यम् । द्वितीये स्वप्नाद्यवस्थोक्त्या त्वंपदार्थो ब्रह्मतत्त्वं चोच्ये । तृतीये वाक्यार्थस्तदर्थमुपासनाश्च विचार्यन्ते ।
चतुर्थपादार्थमाह -
सम्यग्दर्शनादिति ।
दर्शनोपायाः संन्यासादयः । मुक्तिरूपफलस्य स्वर्गवत्तारतम्यनियमाभावः एकरूपत्वमिति यावत् । प्रसङ्गागतं देहात्मदूषणम् । पञ्चसु द्युपर्जन्यपृथिवीपुरुषयोषित्स्वग्नित्वध्यानं पञ्चाग्निविद्या । यस्मात्कर्मणा गत्यागतिरूपोऽनर्थस्तस्मात्कर्मफले जुगुप्सां घृणां विरक्तिं कुर्वीतेति पञ्चाग्निविद्योपसंहारे श्रवणाद्वैराग्यार्थं प्रदर्श्यते इत्यन्वयः । शास्त्रादिसूत्रे नित्यानित्यविवेककृतं वैराग्यमुक्तम्, इह तद्दार्ढ्याय गत्यागतिक्लेशभावनाकृतं तदुच्यत इत्यपौनरुक्त्यम् ।
अधिकरणविषयमाह -
जीव इति ।
अविद्या प्रसिद्धा । विद्येति पाठे उपासना ग्राह्या । कर्म धर्माधर्माख्यं, पूर्वप्रज्ञा जन्मान्तरसंस्कारः । अथ मरणकाले प्राणा हृदये जीवेनैकीभवन्तीत्यर्थः । रूपं शरीरं, पञ्चीकृतभूतभागाः उत्तरदेहपरिणामिनो भूतसूक्ष्माः । वेदान्तार्थज्ञानसाधनविचारत्वात्सर्वाधिकरणानां, श्रुतिशास्त्राध्यायसङ्गतयः वैराग्यफलकत्वादेतत्पादसङ्गतिः । पूर्वाधिकरणे व्यवहारार्थं पञ्चीकरणमुक्तं स व्यवहारोऽत्र निरूप्यत इति फलफलिभावोऽवान्तरसङ्गतिः । अत्र पूर्वपक्षे निराश्रयप्राणगत्यभावात्, न वैराग्यं, सिद्धान्ते भूताश्रयप्राणगतेर्वैराग्यमिति फलभेदः । तेजोमात्राश्चक्षुरादयः, पश्यति जिघ्रतीति वाक्यशेषात् । आपः पञ्चस्वग्निषु हुताः पञ्चम्यामाहुतौ हुतायां यथा पुरुषशब्दवाच्याः पुरुषात्मना परिणमन्ते तथा किं त्वं वेत्थेति श्वेतकेतुं प्रति राज्ञः प्रवाहणस्य प्रश्नः, तस्य चोत्तराज्ञाने तत्पितरं प्रति राजोवाच 'असौ वाव लोको गौतमाग्निस्तत्र श्रद्धाख्या आपः आहुतिः पर्जन्याग्नौ सोमरूपा इह खल्वग्निहोत्रे श्रद्धया हुता दध्यादिरूपा आपो यजमानसंलग्नाः स्वर्गं लोकं प्रप्य सोमाख्यदिव्यदेहात्मना स्थिताः कर्मान्ते द्रुताः पर्जन्ये हूयन्ते ततो वृष्टिरूपाः पृथिव्या अन्नरूपाः पुरुषे रेतोरूपाः योषिति हुताः आपः पुरुषशब्दवाच्याः पुमात्मका भवन्ति' इति निरूपणं कृतम् ।