ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥ १ ॥
तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्त इतितदन्तरप्रतिपत्तौ देहान्तरप्रतिपत्तौ, देहबीजैर्भूतसूक्ष्मैः सम्परिष्वक्तः, रंहति गच्छतिइत्यवगन्तव्यम्कुतः ? प्रश्ननिरूपणाभ्याम्; तथा हि प्रश्नःवेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ (छा. उ. ५ । ३ । ३) इतिनिरूपणं प्रतिवचनम् , द्युपर्जन्यपृथिवीपुरुषयोषित्सु पञ्चस्वग्निषु श्रद्धासोमवृष्ट्यन्नरेतोरूपाः पञ्च आहुतीर्दर्शयित्वा, — इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ (छा. उ. ५ । ९ । १) इतितस्मादद्भिः परिवेष्टितो जीवो रंहति व्रजतीति गम्यतेनन्वन्या श्रुतिः जलूकावत्पूर्वदेहं मुञ्चति यावन्न देहान्तरमाक्रमतीति दर्शयतितद्यथा तृणजलायुका’ (बृ. उ. ४ । ४ । ३) इतितत्राप्यप्परिवेष्टितस्यैव जीवस्य कर्मोपस्थापितप्रतिपत्तव्यदेहविषयभावनादीर्घीभावमात्रं जलूकयोपमीयत इत्यविरोधःएवं श्रुत्युक्ते देहान्तरप्रतिपत्तिप्रकारे सति, याः पुरुषमतिप्रभवाः कल्पनाःव्यापिनां करणानामात्मनश्च देहान्तरप्रतिपत्तौ कर्मवशाद्वृत्तिलाभस्तत्र भवति, — केवलस्यैवात्मनो वृत्तिलाभस्तत्र भवति, इन्द्रियाणि तु देहवदभिनवान्येव तत्र तत्र भोगस्थाने उत्पद्यन्ते, — मन एव वा केवलं भोगस्थानमभिप्रतिष्ठते, — जीव एव वा उत्प्लुत्य देहाद्देहान्तरं प्रतिपद्यते, शुक इव वृक्षाद्वृक्षान्तरम्इत्येवमाद्याः, ताः सर्वा एव अनादर्तव्याः, श्रुतिविरोधात् ॥ १ ॥

नन्वेतद्देहं त्यक्त्वाद्भिः सह गतस्य पश्चाद्देहान्तरप्राप्तिरित्ययुक्तम् । यथा तृणजलायुका तृणान्तरं गृहीत्वा पूर्वतृणं त्यजति तथा जीवो देहान्तरं गृहीत्वा पूर्वदेहं त्यजतीति श्रुतिविरोधादिति शङ्कते -

नन्वन्येति ।

इहैव कर्मायत्तभाविदेहं देवोऽहमित्यादिभावनया गृहीत्वा पूर्वदेहं त्यजतीति श्रुत्यर्थः,

अतो न विरोध इति समाधत्ते -

तत्रापीति ।

भावनाया दीर्घीभावो भाविदेहविषयत्वम् । घटाकाशवदुपहितो जीवः सूक्ष्मोपाधिगत्या लोकान्तरं गच्छतीति पञ्चाग्निश्रुत्युक्तः प्रकारस्तद्विरोधादन्याः कल्पनाः सर्वा अनादर्तव्या इत्यन्वयः ।

साङ्ख्यकल्पनामाह -

व्यापिनामिति ।

सुगतकल्पनामाह -

केवलस्येति ।

निर्विकल्पकज्ञानसन्तानरूपस्यात्मनो देहान्तरे शब्दादिसविकल्पकज्ञानाख्यवृत्तिलाभो भवतीत्यर्थः ।

काणादकल्पनामाह -

मन इति ।

देहान्तरं प्रति मनोमात्रं गच्छति, इन्द्रियाणि तु नूतनान्येवारभ्यन्ते ।

दिगम्बरकल्पनामाह -

जीव इति ॥१॥