ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
त्र्यात्मकत्वात्तु भूयस्त्वात् ॥ २ ॥
तुशब्देन चोदितामाशङ्कामुच्छिनत्तित्र्यात्मिका हि आपः, त्रिवृत्करणश्रुतेःतास्वारम्भिकास्वभ्युपगतास्वितरदपि भूतद्वयमवश्यमभ्युपगन्तव्यं भवतित्र्यात्मकश्च देहः, त्रयाणामपि तेजोबन्नानां तस्मिन्कार्योपलब्धेःपुनश्च त्र्यात्मकः, त्रिधातुत्वात्त्रिभिर्वातपित्तश्लेष्मभिः भूतान्तराणि प्रत्याख्याय केवलाभिरद्भिरारब्धुं शक्यतेतस्माद्भूयस्त्वापेक्षोऽयम् — ‘आपः पुरुषवचसःइतिप्रश्नप्रतिवचनयोरप्शब्दः, कैवल्यापेक्षःसर्वदेहेषु हि रसलोहितादिद्रवद्रव्यभूयस्त्वं दृश्यतेननु पार्थिवो धातुर्भूयिष्ठो देहेषूपलक्ष्यतेनैष दोषःइतरापेक्षया अपां बाहुल्यं भविष्यतिदृश्यते शुक्रशोणितलक्षणेऽपि देहबीजे द्रवबाहुल्यम्कर्म निमित्तकारणं देहान्तरारम्भेकर्माणि अग्निहोत्रादीनि सोमाज्यपयःप्रभृतिद्रवद्रव्यव्यपाश्रयाणिकर्मसमवायिन्यश्च आपः श्रद्धाशब्दोदिताः सह कर्मभिर्द्युलोकाख्येऽग्नौ हूयन्त इति वक्ष्यतितस्मादप्यपां बाहुल्यप्रसिद्धिःबाहुल्याच्च अप्शब्देन सर्वेषामेव देहबीजानां भूतसूक्ष्माणामुपादानमिति निरवद्यम् ॥ २ ॥

ननु पाकस्वेदगन्धरूपकार्यत्रयोपलब्धेस्त्र्यात्मको देह इत्ययुक्तम् । प्राणावकाशयोरप्युपलब्ध्या देहस्य पञ्चभूतात्मत्वादित्यरुच्या व्याख्यान्तरमाह -

पुनश्चेति ।

देहधारकत्वाद्धातवस्तैस्त्रिधातुत्वात्र्यात्मक इत्यन्वयः । देहस्य केवलाब्जत्वे वातं पित्तं च वायव्यं तैजसं न स्यातामिति भावः । पृथिवीतरभूतापेक्षयापां बाहुल्यम् ।

किञ्च देहनिमित्तानां कर्मणामब्बाहुल्यात्ताभिर्भूतान्तराण्युपलक्ष्यन्त इत्याह -

कर्म चेत्यादिना ॥२॥