ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
प्राणगतेश्च ॥ ३ ॥
प्राणानां देहान्तरप्रतिपत्तौ गतिः श्राव्यतेतमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तꣳ सर्वे प्राणा अनूत्क्रामन्ति’ (बृ. उ. ४ । ४ । २) इत्यादिश्रुतिभिःसा प्राणानां गतिर्नाश्रयमन्तरेण सम्भवतीत्यतः प्राणगतिप्रयुक्ता तदाश्रयभूतानामपामपि भूतान्तरोपसृष्टानां गतिरवगम्यते हि निराश्रयाः प्राणाः क्वचिद्गच्छन्ति तिष्ठन्ति वा, जीवतो दर्शनात् ॥ ३ ॥

उत्क्रान्तौ प्राणा देहबीजपञ्चभूताश्रयाः प्राणत्वाज्जीवद्देहस्थप्राणवदित्याह -

प्राणगतेश्चेति ॥३॥